________________
भवभावना-१७७
[मू] अन्ने अवरोप्परकलहभावओ तह य कोवकरणेणं। पावंति तिरियभावं, भमंति तत्तो भवमणंत॥१७६॥ ___[अन्ये परस्परकलहभावतः तथा च कोपकरणेन।
प्राप्नुवन्ति तिर्यग्भावं भ्रमन्ति ततो भवमनन्तम्॥१७६॥] दृष्टान्तमाह[मू] पाणिवहेणं भीमो, कुणिमाहारेण कुंजरनरिंदो। आरंभेहि य अघलो, नरयगईए उदाहरणा॥१७७॥
[प्राणिवधेन भीमः कुणपाहारेण कुञ्जरनरेन्द्रः। आरम्भैश्च अघलो नरकगतेरुदाहरणानि॥१७७॥]
भीमकथा] [अव] कथानकं यथा-काम्पिल्यपुरे श्रीदामस्य पद्मावतीजायायाः सुतो भीमः क्रौर्यलौल्यादिदोषाकरः। द्वितीयजायायाः कमलिन्याः सुताश्चत्वारः भानुराम कीर्ति - धनाः कलावन्तो गुणिनश्च। मतिसागरमन्त्री सुश्राद्धस्तस्य सुताश्चत्वारः सुमति - विमल बृहस्पति मतिधनाः गुणिनः कलावन्तश्च। भीमो दुर्दान्तो भान्वादिबन्धून् सुमतिं विना मन्त्रिपुत्राँश्च कुट्टयति। मन्त्रिणा भीमाज्ञाये(मापाये) राज्ञो ज्ञापितेऽपि राज्ञीभयान्नृपो भीमस्य वक्तुं न शक्नोति। अन्यदा भीमोद्विजिता जना रावां कुर्वन्ति। ततो राज्ञा भीमः कुमारभुक्त्या देशे दत्ते प्रेष्यमाणः सुमतिं सहाकारयति। मन्त्र्यपि “वत्स! यदा भीमो नृपं मां च निगृह्णाति तदा त्वया रक्षा कार्या” इति सुमतिमाशिक्षयत्। ततो मन्त्रिबुद्ध्या “वत्स! यदा मां मन्त्रिणं च भीमो निगृह्णाति तदा त्वया रक्षा कार्या” इति सविमलं भानु बहुरत्नादियुतं राजा देशान्तरे प्रैषीत्। भीमोऽथ देशान् वशीकृत्य काम्पिल्यं च राजानं समन्त्रिणं काष्ठपञ्जरे क्षिप्त्वा नृपोऽभूत्। सुमतिश्च मन्त्री कृतः। भीमो नृपामात्यौ दिधउ(धृतौ?)। सुमतिवाचा सकाष्ठपञ्जरौ भूमध्ये चिक्षेप। तौ च सुमतिः सुरङ्गया स्वगृहं निन्ये रहः। भीमश्च शश्वन्मृगयारतो दस्यून् मारयति। अल्पेऽप्यपराधे हस्तादि छिन्दन् शत्रुग्रामज्वालनादिना दुष्टोऽभूत्। ___इतश्च भानुविमलौ भुवि भ्रमन्ताम(व)टव्यां योगिनं विद्या साधयन्तं दृष्ट्वा किमेतदिति पृच्छतुः। योग्याह-“भद्र! मे गुरुदत्तविद्यां साधयतो बहुकालो गतः। विद्यां जप्त्वा बिल्वमग्नौ क्षिप्यते त्रिः, पश्चाद् स्वयं झम्पा दीयते। परं तादृशं सत्त्वं मे ना”