________________
४८
भवभावना- १७७
ततो भानुना विद्या मार्गिता। दत्ता च तेन। भानुस्तथा कृत्वा झम्पां कुण्डे ददौ, पृष्ठतो विमलोऽपि। ततो विमानारूढां प्रज्ञप्तीं देवीं पश्यतः स्म । तुष्टा देवी रत्नभृतं विमानमर्प[यत्]ताभ्यां नृपमन्त्री काष्टपञ्जरक्षेपादि चोचे । देव्या भीमो निगृहीतः। भानुर्योगिने रत्नानि ददौ। विमानेन काम्पिल्ये गत्वा विद्याभृच्चक्री जातः।
अन्यदा भानुविमलौ विरक्तौ जनकाद्यनुज्ञाप्य प्रव्रजितौ । भानुश्चतुर्ज्ञानी काम्पिल्ये श्रीदामजनकाग्रे धर्मं दिदेश । नृप आह “भगवन् ! भीमस्य मयि मन्त्रिणि च द्वेषः सुमतौ च प्रीतिः कुतः?” ज्ञान्याह-“मगधेषु धनालग्रामेशः सिंहः, दत्तः सेवकः, ऋद्धो कौटुम्बिको, नन्दवत्सावन्योऽन्यप्रीतौ । अन्यदा {दत्त}सिंहेनाभ्याख्यानं दत्त्वा नन्दस्य सर्वा श्रीर्गृहीता। पुनर्वत्सवचनात् प्रत्यर्पिता । सिंहो दत्तश्च महापापेन नरकं गत्वा भवं भ्रान्त्वा त्वं च मन्त्री जातौ । नन्दो भीमः वत्सश्च सुमतिः” इति श्रुत्वा राजा मन्त्री अन्येऽपि च प्रव्रज्य शिवमापुः । भीमस्तु प्राणिवधेन सप्तम्यां नरकं भुवि परमायुर्नारकस्ततश्च सू(भू)रिभवम्। इति प्राणिवधे भीमकथा।।
[कुञ्जरनृपकथा]
कुणिमाहारे कुञ्जरनृपकथा चेयम्
सिंहपुरे सिंहनृपो विजया राज्ञी चित्रमतिः मन्त्री परमश्राद्धो तत्सङ्गत्या नृपोऽपि परमजैनोऽजनि। एकदा राज्ञाचिन्ति यदि मे पुत्रः स्यात्तदा तं राज्ये न्यस्य प्रव्रजामि। इतश्च राज्ञी स्वोदरात्सर्पं गच्छन्तं राज्ञे ( राजानं ) दशन्तं च स्वप्नं ददर्श । सा भीता राज्ञे कथयति। राज्ञा किमेतदिति पृष्टो मन्त्र्याह - “राजँस्तव पुत्रो भावि उद्वेगकृत् ततो जातमात्रे पुत्रे सुन्दरभागिनेयं राज्ये न्यस्य प्रव्रज्यते ।” पुत्रे जाते कुञ्जर इति नाम दत्त्वा समन्त्री नृपः प्राव्रजत्। कालेन कुञ्जरं राज्ये न्यस्य सुन्दरोऽपि प्राव्रजत्। स च मृगयारतो मांसादिगृद्धः सिरीयकसूपकृत[कृतानि ] नानाजीवमांसानि संस्कृत्यान्यत्ति। नृपसूपकृतौ षष्ठपृथिव्यां गतौ । सिंहगिरिचित्रमतिसुन्दराः सिद्धाः | [ इति ] कुणिमाहारे कुञ्जरराजकथा।
आरम्भे हि अघलो त्ति। तत्कथानकमिदम्