________________
भवभावना-१७२
[अव] इति पूर्वोक्तप्रकारेण परमाधार्मिकजनिता परस्परोद्दीपिता क्षेत्रानुभावजनिता चेति त्रिविधा वेदना नरके आद्यपृथिवीत्रयलक्षणे परतसु(स्तु) परमाधार्मिकाभावात् तज्जनितां त्यक्त्वा शेषा द्विविधैव। एवं सा द्विविधापि स्वभावेनैवाग्विर्तिन्या अनन्तगुणेति स्वयमकृतं शुभाशुभं कर्म क इह जगति भुङ्क्ते? न कश्चिदित्यर्थः। यद्य(च्च) स्वयमेव कृतं कर्म तदनुभुञ्जानो लोकः किमिति दुर्मना भवति? किं सम्यग् न सहते? इति॥१७१॥
कदा पुनरयमात्मात्मनो दुःखकारणं समित्रं कदा चामित्रमित्याह[] दुप्पत्थिओ अमित्तं, अप्पा सुप्पत्थिओ हवइ मित्तं। सुहदुक्खकारणाओ, अप्पा मित्तं अमित्तं वा॥१७२॥
[दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितो भवति मित्रम्।
सुखदुःखकारणादात्मा मित्रममित्रं वा॥१७२॥] [अव| दुःप्रस्थितः = कुमार्गप्रवृत्त आत्मा दुःखकारणत्वादात्मनोऽमित्रम्। मित्रं सुमार्गानुगतश्च सुखकारणत्वादिति॥१७२॥ [v] वारिज्जंतो वि हु गुरुयणेण तइया करेसि पावाइं। सयमेव किणियदक्खो, रूससि रे जीव ! कस्सिण्हिं ?॥१७३॥
[वार्यमाणोऽपि खलु गुरुजनेन तदा करोषि पापानि।
स्वयमेव क्रीतदुःखा रुष्यसि रे जीव ! कस्मै इदानीम् ?॥१७३॥] [मू] सत्तमियाओ अन्ना, अट्ठमिया नत्थि निरयपुढवि त्ति। एमाइ कुणसि कूडुत्तराई इण्हिं किमुव्वयसि ?॥१७४॥
[सप्तमीतस्त्वन्या अष्टमिका नास्ति निरयपृथ्वीति।
एवमादि करोषि कूटोत्तराणीदानीं कथमुद्विजसे ?॥१७४॥] [मू] इय चिंताए बहु वेयणाहिं खविऊण असुहकम्माइं। जायंति रायभुवणाइएसु कमसो य सिझंति॥१७५॥
[इति चिन्तया बहुवेदनाभिः क्षपयित्वाशुभकर्माणि। जायन्ते राजभुवनादिकेषु क्रमशश्च सिद्ध्यन्ति॥१७५॥]
१.तह इति पा. प्रतौ।