________________
४०
[] इय जड़ निहत्थारोवियस्स तस्सेव पावविडविस्स । भुंजसि फलाई रे दुट्ठ ! अम्ह ता एत्थ को दोसो ? ॥१४५॥
[इति यदि निजहस्तारोपितस्य तस्यैव पापविटपिनः ।
भुङ्क्षे फलानि रे दुष्ट! अस्माकं ततोऽत्र को दोषः ? || १४५ ॥ ]
[अव] रे दुष्ट! यदि त्वं फलानि भोक्ष्ये तदा अस्माकं दोषः कः ? कस्य फलानीत्याह? पापान्येव विटपी वृक्षस्तस्य, कथम्भूतस्य? तस्यैव नत्थि जए (गाथा- १२६) इत्यादिपूर्वोक्तप्रकारस्यैव पुनर्निजहस्तारोपितस्य स्वयमेव कृतस्येति भावः। एतानि च तैः स्मारितपूर्वदुष्कृतानि भवप्रत्ययजातिस्मरणेन नारकाः स्वयमेव जानन्ति। अवधिना तु न किञ्चिदवगच्छन्ति, तस्योत्कृष्टतोऽपि योजनमात्रत्वात् तेषामित्यर्थः॥१४५॥
=
इत्याद्युक्तप्रकारेण पूर्वभवदुष्कृतानि स्मारयित्वा नरकपालाः पुनरपि नारकाणां यत् कुर्वन्ति तदाह
[मू] इच्चाइ पुव्वभवदुक्कयाइं सुमराविडं निरयपाला । पुणरवि वियणाउ उईरयंति विविहप्पयारेहिं॥१४६॥ [इत्यादिपूर्वभवदुष्कृतानि स्मारयित्वा निरयपालाः।
पुनरपि वेदना उदीरयन्ति विविधप्रकारैः॥१४६॥]
भवभावना-१४५
[अव] सुगमार्था॥१४६॥ वनदवदायिनोऽधिकृत्याह
[मू]
[मू] उक्कत्तिऊण देहाउ ताण मंसाई चडफडंताण । ताणं चिय वयणे पक्खिवंति जलणम्मि भुंजेउं ॥ १४७॥ [उत्कर्त्य देहात् तेषां मांसानि स्पन्दमानानाम्।
तेषां चैव वदने प्रक्षिपन्ति ज्वलने भ्रष्ट्वा ॥ १४७॥]
[मू] रे रे तुह पुव्वभवे, संतुट्टी आसि मंसरसएहिं ।
इय भणिउं तस्सेव य, मंसरसं गिहिउं देंति ॥ १४८॥ [रे रे तव पूर्वभवे सन्तुष्टिः आसीद् मांसरसकैः।
इति भणित्वा तस्यैव च मांसरसं गृहीत्वा ददति ॥ १४८॥] चउपासमिलिअवणदवमहंतजालावलीहिं डज्झता । सुमराविज्जंति सुरेहिं नारया पुव्वदवदाणं॥१४९॥