________________
३४
[विकरालवज्रकण्टकभीममहाशाल्मलीषु च क्षिपन्ति। प्रलपतः खरशब्दं खरस्वरा निरयपाला इति॥११९॥] [अव] विअराल | परस्परमिति अन्यमन्यस्य पार्श्वात् तमपीतरस्य समीपादित्येवम्। परस्परस्यापि नारकान् परशुभिरुत्क्षिपन्ति = सर्वत्वगाद्यप्रहरणेन तनूकारयन्तीत्यर्थः॥११९॥
महाघोषविलसितमाह
[मू] पसुणो व्व नारए वहभएण भीए पलायमाणे य। महघोसं कुणमाणा, रुभंति तहिं महाघोसा ॥ १२०॥
भवभावना-१२०
[पशूनिव नारकान् वधभयेन भीतान् पलायमानाँश्च। महाघोषं कुर्वतः रुन्धन्ति तत्र महाघोषाः॥१२०॥]
[अव] स्वयमेव नानाविधतीव्रकदर्थनादिभिर्नारकान् कदर्थयित्वा ततस्तत्कदर्थनाभयेन पलायमानान् महाघोषास्ताँस्तत्रैव वधस्थाने पशूनिव सम्पीड्य निरुन्धन्ति, नान्यत्र गन्तुं ददति॥१२०॥
[अव] तदेवमेतेषामम्बादिभवनपतिदेवाधमानां दिङ्गात्रोपदर्शनार्थं सङ्क्षेपो दर्शितः। कदर्थनाव्यापारो विस्तरतः सर्वस्य सर्वायुषापि कथयितुमशक्यत्वाद्। यदेते च तत्पापपरिणतिप्रेरिता एव नारकान् व्याधा इव कदर्थयन्ति । ततश्च तेऽपि तत्प्रत्ययं कर्म बद्ध्वात्र मत्स्यादितिर्यक्षत्पद्य नरकेषु पतन्ति । अन्यैश्च तेऽपि कदर्थ्यन्ते ।
आह-नन्वेतमेते नारकाः करपत्रादिपाटनतिलशच्छेदनादिभिः कथं न म्रियन्त
इत्याह
[मू] तह फालिया वि उक्कत्तिया वि तलिया वि छिन्नभिन्ना वि। दड्ढा भुग्गा मुडिया, य तोडिया तह विलीणा य॥१२१॥ [तथा पाटिता अपि उत्कर्तिता अपि तलिता अपि छिन्नभिन्ना अपि । दग्धा भुग्ना मोटिताश्च त्रोटितास्तथा विलीनाश्च॥१२१॥]
[मू] पावोदएण पुणरवि, मिलंति तह चेव पारयरसो व्व । इच्छंता वि हु न मरंति कह वि हु ते नारयवराया ॥ १२२॥
१. हु इति पा. प्रतौ नास्ति तद्रहित एव पाठः सम्यग् अन्यथा मात्राधिक्यं भवति ।