________________
भवभावना-११०
रुद्राः किं कुर्वन्तीत्याह[मू] छिंदंति असीहिं तिसूलसूलसुइसत्तिकुंततुमरेसु। पोयंति चियासु दहति निद्दयं नारए रुद्दा॥१०७॥
[छिन्दन्ति असिभिः त्रिशूलशूलसूचिशक्तिकुन्ततोमरेषु।
प्रोतयन्ति चितासु दहन्ति निर्दयं नारकान् रुद्राः॥१०७॥] [अव] सूचिर्वज्रमयी शूलिकाविशेषरूपा द्रष्टव्या। शेषा गतार्था॥१०७॥
उपरुद्राः किं व्यवस्यन्ति इति प्राह[मू] भंजंति अंगुवंगाणि ऊरू बाहू सिराणि करचरणे। कप्पंति खंडखंडं, उवरुद्दा निरयवासीणं॥१०८॥
- [भञ्जन्ति अङ्गोपाङ्गानि ऊरू बाहू शिरांसि करचरणान्।
कल्पयन्ति खण्डखण्डमुपरुद्रा नरकवासिनाम्॥१०८॥] [अव] प्रकटार्था। कालाः किमाचरन्तीत्याह[v] मीरासु सुंठिएसुं, कंडूसु य पयणगेसु कुंभीसु। लोहीसु य पलवंते, पयंति काला उनेरइए॥१०९॥
(दीर्घचुल्लीषु शुण्ठकेषु कन्दुषु च पचनकेषु कुम्भीषु।
लौहिषु च प्रलपतः पचन्ति कालास्तु नैरयिकान्॥१०९॥] । [अव] मीरासु = वज्राग्निभृद्दीर्घचुल्लीषु सुकण्ठेषु = वज्रमयतीक्ष्णकीलकेषु मांसमिव तन्मुखे प्रक्षिप्य कन्दुषु = तीव्रतापेषु उल्लूरिकोपकरणविशेषेषु पचनकेषु मण्डकादिपाकहेतुषु कुम्भीषु उष्ट्रिकाकृतिषु लौहीषु-अतिप्रतप्तायसकवल्लिषु प्रलापान् कुर्वतो नारकान् जीवान् मत्स्यानिव कालाः पचन्तीत्यर्थः॥१०९॥ ___ महाकालानां व्यवसायमाह[v] छेत्तूण सीहपुच्छागिईणि तह कागणिप्पमाणाणि। खावंति मंसखंडाणि नारए तत्थ महकाला॥११०॥
[छित्त्वा सिंहपुच्छाकृतीन् तथा काकणीप्रमाणान्।
खादयन्ति मांसखण्डान् नारकांस्तत्र महाकालाः॥११०॥] [अव] महाकालास्तत्र नारके नारकान् मांसखण्डान् खादयन्ति, छित्त्वा पृष्ठ्यादिप्रदेशान्, कथं भूतानीत्याह-पुच्छाकृतीनि, तथा काकणी = कपर्दिका