SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३० भवभावना-१०४ नानाभयानि सन्दर्शयन्तः सारमेयानिव तानुत्त्रासयन्ति। दूरं यावत् पृष्ठतो धावन्तः पलायनं कारयन्तीत्यर्थः॥१०३॥ अथाम्बर्षिव्यापारमाह[मू] निहए य तह निसन्ने, ओहयचित्ते विचित्तखंडेहि। कप्पंति कप्पणीहिं, अंबरिसी तत्थ नेरइए॥१०४॥ निहताँश्च तथा निषण्णान् उपहतचित्तान् विचित्रखण्डैः। कल्पयन्ति कल्पनीभिः अम्बर्षयस्तत्र नैरयिकान्॥१०४॥] [अव] खड्गमुद्रादिना निहतांस्तथा निषण्णाँस्तुदति मूर्च्छया पतितानुपहतमनःसङ्कल्पान् निश्चेतनीभूतान्। सूचिकोपकरणविशेषसदृशीभिः कल्पनीभिर्विचित्रैः स्थूलमध्यमसूक्ष्मखण्डैस्तत्राम्बर्षयो नारकान् कल्पयन्ति॥१०४॥ अथ श्यामानां व्यापृतिमाह[मू] साडणपाडणतोत्तयविंधण तह रज्जुतलपहारेहि। सामा नेरइयाणं, कुणंति तिव्वाओ वियणाओ॥१०५॥ __ [सातनपातनतोत्रकवेधनं तथा रज्जुतलप्रहारैः। श्यामा नैरयिकाणां कुर्वन्ति तीव्रा वेदनाः॥१०५॥] । [अव] सातनम् = अङ्गोपाङ्गानां छेदनं पातनम् = घटिकालयादधो वज्रभूमौ प्रक्षेपणं तथा तोत्रकेण = वज्रमयप्राजानदण्डेन वेधनम् = आराभिरुत्पाटनम्। पातशतनादिभिस्तथा रज्जुपादतलप्रहारैश्च श्यामा नारकाणां तीव्रवेदनां कुर्वन्ति॥१०५॥ अथ शबलानां कृत्यमाह[मू] सबला नेरइयाणं, उयराओ तह य हिययमज्झाओ। कड्ढंति अंतवसमंसफिप्फिसे छेदिउं बहुसो॥१०६॥ [सबला नैरयिकाणामुदरात्तथा च हृदयमध्यात्। कर्षन्ति अन्त्रवसामांसफिप्फिसानि छित्त्वा बहुशः॥१०६।।] [अव] शबला नारकाणां विरसमारसतां हृष्टा उदरं पाटयित्वा हृदयं च छित्त्वासत्यपि तच्छरीरेषु तद्भयोत्पादनार्थं वैक्रियाणि कृत्वा समाकृष्यांन्त्रवसामांसानि तथान्त्रवर्तिनी मांसविशेषरूपाणि फिप्फिसानि दर्शयन्ति॥१०६॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy