________________
भवभावना-१०३
[v] इय जंपंता वावल्लभल्लिसेल्लेहिं खग्गकुंतेहिं। नीहरमाणं विंधति तह य छिंदंति निक्करुणा॥१००॥
[इति जल्पन्तो व्यापृतभल्लिशरैः खड्गकुन्तैः।
निःसरन्तं विध्यन्ति तथा च छिन्दन्ति निष्करुणाः॥१००॥] [अव] सुगमे। नवरं पापं = पापिष्ठम्। अन्नेऽवि निरयपाला इति पाठोऽयुक्त एव लक्ष्यते, अनागमिकत्वाद, अम्बादिपञ्चदशदेवजातिभ्योऽन्यस्य नरकपालस्यागमे क्वचिदप्यश्रवणाद् अतः शोधनीयः पाठ इति।
घटिकालयान्निपतन्नारकस्तैः पापक्रीडारतैर्देवैः क्व क्षिप्यत इत्याह[मू] निवडतो वि हु कोइ वि, पढमं खिप्पड़ महंतसूलाए। अप्फालिज्जइ अन्नो, वज्जसिलाकंटयसमूहे॥१०१॥
[निपतन्नपि खलु कश्चिदपि प्रथमं क्षिप्यते महाशूलायाम्।
आस्फाल्यतेऽन्यो वज्रशिलाकण्टकसमूहे॥१०१॥] [मू] अन्नो वज्जग्गिचियासु खिप्पए विरसमारसंतो वि। अंबाईणऽसुराणं, एत्तो साहेमि वावारं॥१०२॥ __ [अन्यो वज्राग्निचितासु क्षिप्यते विरसमारसन्नपि।।
अम्बादीनामसुराणामितः कथयामि व्यापारम्॥१०२॥] [अव] सुगमार्थं गाथाद्वयम्। नवरमेते अम्बादिजातीया देवाः प्रायो भिन्नव्यापारेण नारकान् कदर्थयन्ति। अथ तेषां पृथग्व्यापारं द्वितीयसूत्रकृदङ्गादिषु तीर्थकरगणधरैः प्रतिपादितं कथयामि॥१०२॥
[पञ्चदशपरमाधार्मिककृत्यवर्णनम्] तत्राम्बाजातीयानामयं व्यापारस्तद्यथा[मू] आराइएहि विधंति मोग्गराईहिं तह निसुंभंति। धाडंति अंबरयले, मुंचंति य नारए अंबा॥१०३॥
[आरादिकैर्विध्यन्ति मुद्गरादिभिस्तथा ताडयन्ति।
ध्राट्यन्ति अम्बरतले मुञ्चन्ति च नारकानम्बाः॥१०३॥] [अव] अम्बजातीया देवा नारकमम्बरतले दूरं नीत्वा ततश्चाधोमुखं मुञ्चन्ति, पतन्तं च वज्रमयारादिभिर्विध्यन्ति, मुद्गरादिभिस्ताडयन्ति। तथा 'धाडंति' त्ति। क्रीडया