________________
भवभावना-९५
कियन्मानं पुनस्तेषां तत्र शरीरं भवतीत्याह[मू] अंगुलअसंखभागो, तेसि सरीरं तहिं हवइ पढम। अंतोमुहुत्तमेत्तेण जायए तं पि हु महल्लं॥९३॥
[अङ्गुलासङ्ख्यभागस्तेषां शरीरं तत्र भवति प्रथमम्। ___ अन्तर्मुहूर्तमात्रेण जायते तदपि खलु महत्॥९३॥] [अव] इदमुक्तं भवतिसर्वास्वपि नरकपृथ्वीषु नारकाणां भवधारणीयं यच्छरीरं तत् जघन्यतोऽङ्गुलासङ्ख्येयभागम्। उत्कृष्टं तु प्रथमपृथिव्यां सप्तधषि हस्तत्रयमङ्गुलषट्कञ्च। द्वितीयायां पञ्चदशधनूंषि सार्द्धहस्तद्वयं च। तृतीयायां ततो द्विगुणम्। तद्यथा-एकत्रिंशद्धनूंष्येको हस्तः। एवं पूर्वस्यामुत्तरस्यां द्विगुणता तावद् द्रष्टव्यं यावत् सप्तमपृथिव्यां पञ्चधनु:शतानि उत्कृष्टं भवधारणीयं शरीरम्। इदं चोत्कृष्टमानमन्तर्मुहूर्तात् सर्वत्र भवति। उत्तरवैक्रियं तु सर्वास्वपि जघन्यतोऽङ्गुलासङ्ख्येयभागः। उत्कृष्टं तु तद्भवधारणीयोत्कृष्टात् सर्वत्र द्विगुणं यावद् सप्तमपृथिव्यां धनु:सहस्रमुत्कृष्टमुत्तरवैक्रियमिति॥९३॥
नन्वन्तर्मुहूर्ताद्यदीदृशं बृहद् भवधारणीयं शरीरं स्यात्तर्हि घटिकालयेषु ते निराबाधं कथं मान्तीत्याह[मू] पीडिज्जइ सो तत्तो, घडियालयसंकडे अमायतो। पीलिज्जंतो हत्थि, व्व घाणए विरसमारसइ॥९४॥
[पीड्यते स ततो घटिकालयसङ्कटे अमान्।
पीड्यमानो हस्तीव घानके विरसमारसति॥९४।] [अव] घटिकालयसङ्कटे पीड्यते = बाध्यतेऽसौ, तस्यातिसङ्कटत्वात् तस्य चातिमहत्त्वादिति॥९४॥
तं च तथोत्पन्नं दृष्टवा परमाधार्मिकसुरा यत् कुर्वन्ति तदाह[मू] तं तह उप्पण्णं पासिऊण धावंति हट्टतुट्ठमणा। रे रे गिण्हह गिण्हह, एयं दुटुं ति जंपंता॥९५॥
[तं तथोत्पन्नं द्रष्ट्वा धावन्ति हृष्टतुष्टमनसः। रे रे गृह्णीत गृह्णीत एतं दुष्टमिति जल्पन्तः॥९५॥]