________________
भवभावना-८७
अथैषां नरकावासानां संस्थानादिस्वरूपमाह[मू] ते णं नरयावासा, अंतो वट्टा बहिं तु चउरंसा। हेट्ठा खुरुप्पसंठाणसंठिया परमदुग्गंधा॥८५॥
[ते नरकावासा अन्तर्वृत्ता बहिश्चतुरस्राः।
__ अधः क्षुरप्रसंस्थानसंस्थिताः परमदुर्गन्धाः॥८५॥] [] असुई निच्चपइट्ठियपूयवसामसरुहिरचिक्खिल्ला। धूमप्पभाइ किंचि वि, जाव निसग्गेण अइ उसिणा॥८६॥
[अशुचयो नित्यप्रतिष्ठितपूतवसामांसरुधिरकर्दमाः।
धूमप्रभायां किञ्चिदपि यावन्निसर्गेणात्युष्णाः॥८६॥] [अव] ते णं.। असुई.। सुगमे पाठसिद्धे, नवरं मांसवसादिवस्तूनि तत्र परमाधार्मिकप्रवर्तितानि द्रष्टव्यानि, स्वरूपेण तेषां तत्राभावात्। चतुर्थीपञ्चम्यादिषु तु परमाधार्मिकरहितासु मांसादिविकुर्वणाभावेऽपि स्वरूपेणैव तेऽनन्तगुणदुर्गन्धा भवन्ति। अपरञ्चाद्यासु तिसृषु पृथ्वीषु चतुर्थ्यां बहवो नरकावासा धूमप्रभायामपि कियन्तोऽपि नरकावासास्ते स्वभावेनैवोष्णा भवन्ति। तथौष्ण्यं कियति माने इति वक्ष्ये॥८६॥
परत: का वार्ता? इत्याह[] परओ निसग्गओ च्चिय, दुसहमहासीयवेयणाकलिया। निच्चंधयारतमसा, नीसेसहायरा सव्वे॥८७॥
[परतो निसर्गतश्चैव दुःसहमहाशीतवेदनाकलिताः।
नित्यान्धकारतमसः निःशेषदुःखाकराः सर्वे।।८७॥] [अव] पर.। धूमप्रभाया: कियद्भ्योऽपि नरकावासेभ्यः परतो ये तस्यामपि पृथिव्यां नरकावासा: ये च षष्ठीसप्तम्योर्येऽपि चतुर्थ्यां कियन्तोऽपि नरकावासास्ते स्वभावेनैव दुस्सहमहाशीतवेदनाकलिता:। शैत्यमानमपि वक्ष्यति। इदं तु सर्वेषां साधारणं स्वरूपम्। किमित्याह-निच्च। केवलमन्धकारदु:खयोरधोऽधोऽनन्तगुणत्वं द्रष्टव्यमिति॥८७॥
औष्ण्यशैत्यमानमाह
१. (केत्तिया वि) मु.क. प्रतौ।