________________
२४
भवभावना-८४
तद्यथा-रत्नप्रभा', शर्कराप्रभा', वालुकाप्रभा , पङ्कप्रभा', धूमप्रभा', तम:प्रभा', तमस्तम:प्रभा। एतासु मध्ये रत्नप्रभा प्रत्यक्षत एव दृश्यते। अतस्तत्प्रत्यक्षतया प्रत्यक्षपरामर्शिना एतच्छब्देन सर्वा अपि निर्दिष्टाः। एताश्च सर्वा अपि समन्तात् = सर्वासु दिक्षु विष्कम्भा[यामा]भ्याम् अधोऽधो विस्तारवत्यो द्रष्टव्या:। तद्यथा रत्नप्रभा उपरि समवर्त्तिन्याकाशप्रदेशप्रतरद्वये आयामविष्कम्भाभ्यां सर्वत्र एकरज्जुस्ततोऽधोऽध एषा विस्तारवती तावद्यावच्छर्कराप्रभा आयामविष्कम्भाभ्यां सर्वत्र रज्जुद्वयम्, एवं वालुकाप्रभा तिस्रो रज्जव:, पङ्कप्रभा चतस्रः, धूमप्रभा पञ्च, षष्ठी षट, सप्तमी पृथ्वी सप्तरज्जव: आयामविष्कम्भाभ्यामिति स्थूलमानम्, सूक्ष्मं तु तच्छास्त्रान्तरेभ्योऽवसेयमिति।
एतासु सप्तपृथ्वीषु नगरकस्याधरोत्तरगत्या व्यवस्थिता: प्रस्तराः स्युः। तद्यथा रत्नप्रभायां१३(त्रयोदश), शर्करायां११(एकादश), वालुकाप्रभायां९(नव), चतुर्थ्यां७(सप्त), पञ्चम्यां५(पञ्च), षष्ठयां३(त्रयः), सप्तम्यां१(एकः) प्रस्तरा:। उक्तञ्च
तेरेक्कारस नव सत्त, पंच तिण्णि य तहेव इक्को य। पत्थरसंखा एसा, सत्तसु वि कमेण पुढवीसु॥ ॥८३॥
(बृहत्सङ्ग्रहणी-२१९) एतेषु नगरकल्पेषु प्रस्तटेषु तदन्तर्गता: पाटककल्पा नरकावासा भवन्ति। तत्सङ्ख्यां सप्तस्वपि पृथिवीषु क्रमेणाह[मू] तीसपणवीसपनरसदसलक्खा तिन्नि एग पंचूणं। पंच य नरगावासा, चुलसीइलक्खाइं सव्वासु॥८४॥
[त्रिंशत्पञ्चविंशतिपञ्चदशदशलक्षाः त्रयः एकं पञ्चोनम्।
पञ्च च नरकावासाः चतुरशीतिर्लक्षाणि सर्वासु॥८४॥] [अव] तीस.। रत्नप्रभायां त्रयोदशस्वपि प्रस्तटेषु त्रिंशल्लक्षाणि नरकावासानां भवन्ति। एवं यावत् षष्ठपृथिव्यां त्रिष्वपि प्रस्तटेषु पञ्चभिर्नरकावासैन्यूँनमेकं लक्षं नरकावासानां स्यात्। सप्तम्यां त्वेकस्मिन् प्रस्तटे पञ्चैव नरकावासा:। मीलितास्तु सर्वेऽपि चतुरशीतिलक्षाणि स्युः॥८४॥
१. त्रयोदशैकादश नव सप्त पञ्च त्रिणि च तथैवैकश्वा प्रस्तरसङ्घषा सप्तस्वपि क्रमेण पृथ्वीषु।।