________________
भवभावना-८३
[इत्यन्यत्वं परिचिन्त्य गृहगृहिणीस्वजनप्रतिबन्धम्। मुक्त्वा निजसहायान् धन इव धर्मे उद्यच्छ।।८१॥]
___ [धनश्रेष्ठिकथा] कथानकमिदं यथा-देशपुरे नगरे धनसारश्रेष्ठी सुतो धनस्तज्जाया यशोमती भर्तुर्विनयादि तथा करोति यथा सोऽन्यलोकोऽपि तां सतीं मन्यते। स तस्यां भृशमनुरक्तोऽपि विमलसुश्रावकसङ्गत्या सुश्रावकोऽजनि। विमलेनान्यदोक्तं “हे! धन तव भार्या न शोभना प्रतिभाति। मा त्वामपि मारयत्विति मया ज्ञाप्यते।” तत: सशङ्को जायाचरित्रं विलोकयति। अन्यदा तदुत्तरीयकं कस्यापि विटस्य समीपे दृष्टवा तामाह- “प्रियेऽमुकमुत्तरीयमानय कार्यमस्ति।” साह “सख्या गृहीतमस्ति।” धनेनाचिन्ति 'नूनमसतीयम् अन्यासक्तायामपि मे महामोहः' इति वैराग्यात् प्रव्रज्य नद्यासन्नवने शीतार्तो रात्रौ कायोत्सर्गे स्थितो दंशमशका(क)शीतादिपीडितोऽपि शुभभावोऽन्तकृत्केवली जातः। इति सङ्केपेण धनश्रेष्ठिकथा॥८१॥ चतुर्थान्यत्व-भावनावचूरिः॥
[पञ्चमी भवभावना]
[सप्तनरकवर्णनम्] [मू] नारयतिरियनरामरगईहिं चउहा भवो विणिहिट्ठो। तत्थ य निरयगईए, सरूवमेवं विभावेज्जा॥८२॥
[नारकतिर्यङ्नरामरगतिभिश्चतुर्धा भवो विनिर्दिष्टः।
तत्र च नरकगत्याः स्वरूपमेवं विभावयेत्॥८२॥] [अव] गतार्था।
कथं परिभावयेद्? इत्याह[मू] रयणप्पभाइयाओ, एयाओ तीइ सत्त पुढवीओ। सव्वाओ समंतेण, अहो अहो वित्थरंतीओ॥८३॥
[रत्नप्रभादिका एतास्तस्यां सप्त पृथिव्यः।
सर्वाः समन्ताद् अधोऽधो विस्तारवत्यः॥८३॥] [अव] तस्यां = नरकगतौ रत्नप्रभादिका: सप्त पृथिव्यः स्युः।
१.वि इति पा. प्रतौ।