________________
भवभावना-७५
[] बंधइ कम्मं जीवो, भुंजेइ फलं तु सेसयं तु पुणो। धणसयणपरियणाई, कम्मस्स फलं च हेउं च॥७३॥
[बध्नाति कर्म जीवो भुङ्क्ते फलं तु शेषं तु पुनः।
धनस्वजनपरिजनादि कर्मणः फलं च हेतुश्च॥७३॥] [अव] जीवो मिथ्यात्वादिहेतुभिर्ज्ञानावरणीयादिकं कर्म बध्नाति। तत्फलं च समयान्तरे भुङ्क्ते। शेषं तु धनस्वजनशरीरादि कर्मणः फलम् = कार्यम्, शुभाशुभकर्मोदयवशेनैव तस्य जायमानत्वात्। तथा हेतुः = कारणभूतं च कर्मणस्तन्ममत्वादिना तत्प्रत्ययकर्मबन्धस्य जीवे समुत्पद्यमानत्वात्। अतो भिन्नस्वभावत्वात् जीवाजीवयोर्भेदः॥७३॥
यदि नामैवं यदि भेदस्तत: किमित्याह[मू] इय भिन्नसहावत्ते, का मुच्छा तुज्झ विहवसयणेसु ?। किं वावि होज्जिमेहिं, भवंतरे तुह परित्ताणं ?॥७४॥
- [इति भिन्नस्वभावत्वे का मूर्छा तव विभवस्वजनेषु ?।
किं वापि भवेद् एभिर्भवान्तरे तव परित्राणम् ?॥७४॥] [अव| इअ.। सुगमा। एवमुक्तयुक्तिभ्योऽयःशलाकाकल्पे अन्यत्वे व्यवस्थिते भावानां जीवशरीरस्वजनविभवानां किं तव भो! स्वजनेषु पुत्रादिषु ममत्वम्? कश्च प्रद्वेष: परिजने, एवं हि सति सर्वत्रौदासीन्यमेव युक्तम्। ____ अथैवं ब्रूयात्पुत्रादय: प्रौढीभूताः पुरस्तादुपकारिणो भविष्यन्तीति तेषु ममत्वं परेषु तु नैवमिति तेषु प्रद्वेष इत्याशङ्याह[म] भिन्नत्ते भावाणं, उवयारऽवयारभावसंदेहे। किं सयणेसु ममत्तं ?, को य पओसो परजणम्मि ?॥७५॥
[भिन्नत्वे भावानामुपकारापकारभावसन्देहे।
किं स्वजनेषु ममत्वम् ? कश्च प्रद्वेषः परजने ?॥७५॥] [अव] उपकारश्चापकारश्च उपकारापकारौ। तद्भावस्य सन्देहस्तत्रेति। इदमुक्तं भवति-पुत्रोऽपि बृहत्तरीभूत: पितरं घातादिनापकरोति, परो हि प्रातिवेश्मादिवृहदुन्नतौ सत्यामपकरोति॥७५॥