________________
भवभावना-७१
बहुपत्तिकोटिवृतोऽपि गतत्राणो विपेदे। नरकं गतः।
इक्कुच्चिअ सो नरए, सहेइ तिव्वाइं दुक्खलक्खाई। महुराया इहयं चिय, ठिआ उ मणुआण कोडीओ॥ (हेम.मल.वृ.) ॥इति मधुनृपतिकथा॥ इति तृतीयभावनावचूरिः।।
चतुर्थी अन्यत्वभावना] किमिति देहादयो जीवस्यात्मभूता? इत्याह[म] विन्नाया भावाणं, जीवो देहाइयं जडं वत्थं। जीवो भवंतरगई, थक्कंति इहेव सेसाइं॥७१॥
[विज्ञाता भावानां जीवो देहादिकं जडं वस्तु।
जीवो भवान्तरगतिः तिष्ठन्ति इहैव शेषाणि॥७१॥] [अव] भावानाम्-जीवाजीवादिपदार्थानां विज्ञाता बोधरूपो जीव:। यत्तु देहधनधान्यादिकं बाह्यं वस्तु तज्जडमचेतनस्वरूपम्, चेतनाचेतनयोश्च कथमैक्यं स्याद्? इति भावः। जीवश्च भवान्तरं गच्छति, शेषाणि तु शरीरादीन्यत्रैव तिष्ठन्ति इत्यतोऽपि जीवात् शरीरादयो भिन्नाः, भेदे टेकस्य गमनमपरेषां चावस्थितिरिति युज्यते, नान्यथेति भावः॥७१॥
अपरमप्यन्यत्वकारणमाह[] जीवो निच्चसहावो, सेसाणि उ भंगुराणि वत्थूणि। विहवाइ बज्झहेउब्भवं च निरहेउओ जीवो॥७२॥
[जीवो नित्यस्वभावः शेषाणि तु भङ्गुराणि वस्तूनि।
विभवादि बाह्यहेतूद्भवं च निर्हेतुको जीवः॥७२॥] [अव] नित्यस्वभावो जीव:, कदाचिदप्यविनाशात्, शेषाणि तु शरीरादिवस्तूनि भङ्गुराणि = विनश्वराणि, अग्निसंस्कारादिनात्रैव विनाशाद। विभावादिकं च वस्तु बाह्यदृष्टहेतुसमुद्भवम्, जीवस्त्वनादिसिद्धो निर्हेतुक:। नित्यानित्ययो: सहेतुकनिर्हेतुकयोश्च भेदः सुप्रतीत एवेति॥७२॥
भेदे हेत्वन्तरमाह