________________
१६
भवभावना-५४
हता: षष्ठिसहस्रकुमाराः तत्सैन्या वह्नौ प्रविशन्तः शक्रेण निवारितास्तेन विप्ररूपेण वियोगार्त: सगरो बोधितः शिवमगात्। इति सगरसुताख्यानकं समाप्तम्। अथ दृष्टान्तगर्भमशरणत्वभावनोपसंहारमाह
[मू] इय नाऊण असरणं, अप्पाणं गयउराहिवसुओ व्व । जरमरणवल्लिविच्छित्तिकारए जयसु जिणधम्मे ॥५४॥
[इति ज्ञात्वाशरणमात्मानं गजपुराधिपसुत इव। जरामरणवल्लीविच्छित्तिकारके यतस्व जिनधर्मे ॥ ५४ ॥ ]
[अव] इति = पूर्वोक्तप्रकारेण रोगजरामृत्युविषयेऽशरणमात्मानं ज्ञात्वा रोगजरामरणवल्लीविच्छेदकारके यतस्व जिनधर्मे, क इव? गजपुरराजसूनुरिवोद्यमं
कुरु।
[वसुदत्तकथा]
उदाहरणं यथा कुरुदेशे गजपुरे भीमरथनृपजायासुमङ्गलासुतो वसुदत्तः ७२(द्वासप्तति)कलावान् जिनधर्मभावितो निगोदादिविचारज्ञो राज्ञा महाविभूत्या ५००(पञ्चशत) कन्याः परिणायितः । तद्योग्या ५०० ( पञ्चशत) आवासा हैमदण्डकलशध्वजतोरणमत्तवारणादिरम्या धनधान्यादिभृताः कारिता:। अन्यदा गवाक्षस्थो कुमारो नरमेकं सर्वाङ्गगलत्कुष्ठव्याधिबाधितम्, तत्पृष्ठौ (ष्ठे ) तु पलितवलिकलितं गलल्लालाविलवदनं भग्नपृष्ठिं यष्टिविलग्नं जराग्रस्तं स्थविरमेकम्, तत्पृष्ठे नृचतुष्कवाह्यं शबं च पश्यति। एवं रोगजरामरणग्रस्यमानमशरणं जनं दृष्ट्वा निर्विण्णस्तादृशं राज्यं त्यक्त्वा प्रव्रज्य सिद्धः ॥ इति गजपुराधिपसुतवसुदत्तकथा॥५४॥ इति द्वितीयभावना॥
[तृतीया एकत्वभावना]
यदि नाम स्वकृतकर्मफलविपाकमनुभवतां शरणं न कोऽपि सम्पद्यते, तथापि तद्वेदने द्वितीयः सहायमात्रं कश्चिद्भविष्यत्येतदपि नास्तीति दर्शयन्निदानीमशरणत्वभावनानन्तरमेकत्वभावनामाह
[मू] एक्को कम्माई समज्जिणेड़ भुंजइ फलं पि तस्सेक्को। एक्कस्स जम्ममरणे, परभवगमणं च एक्कस्स॥५५॥