________________
भवभावना ५३
[अर्थेन नन्दराजः न रक्षितो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठी पुत्रैर्न त्रातः सगरः॥५३॥]
सुगमा। कथानिकानि तूच्यन्ते
[नन्दकथा]
गौडदेशे पाटलीपुरे त्रिखण्डाधिपो नन्दो राजा। सः
अकराणां करं चक्रे सकराणां महाकरम्।
१५
सर्वोपायैर्धनं लोकान्नि:कृपः समुपाददे।
व्यवहारोऽपि चर्मनाणकैः प्रवृत्तः । लोको भूभाजनाशनो जातः। स स्वर्णैः पर्वतानकारयत्। नृपा(पोऽमात्यादिभि: प्रतिबोध्यमानोऽप्यतृप्त एवान्ते “हा! मे धनानि कस्य स्युः” इति महार्तिपरो मृत्वा दुरन्तदुःखभागभूत्। इति नन्दकथा।
[कुविकर्णकथा]
मगधदेशे सुघोषग्रामे कुविकर्णो ग्रामणीः। स मीलितानेकगोकुललक्षः विवदमाने वल्लभानां कृष्णादिवर्णै: संविभज्य गा ददौ । स तेष्वेव वसनक्रमेण दध्याद्यजीर्णेन वेदनाक्रान्तो “हा ! गवादयो वः क्व कदा लप्स्ये ?” इति महार्तिर्मृत्वा तिर्यक्त्वमाप। इति कुविकर्णकथा।
[तिलकश्रेष्ठिकथा]
अचलपुरे तिलकश्रेष्ठी ग्रामपुरादिषु बहुधान्यसङ्ग्रहो दुर्भिक्षे धान्येभ्यः प्रत्युपातैर्महाधनैर्बभार धान्यकोष्ठकान् । पुनरन्यदा नैमित्तिकगिरा स्वपरद्रव्येण सङ्गृहीतानि प्रचुरधान्यो मेघवृष्टौ “हा! मे धान्यानि कथं भावीनि” इति हृदयस्फोटेन मृत्वा नरकं ययौ ॥ इति तिलकश्रेष्ठिकथा ।
[सगरचक्रिकथा]
अयोध्यायां जितशत्रुनृपाङ्गजोऽजितनाथः सुमित्रयुवराज्ञः सगरश्चक्रवर्ती सुतः । तत्सुतो जिह्रुकुमारो विनयसन्तुष्टपितृरत्नानि गृहीत्वा पृथ्वीविलोकनाय गतोऽष्टापदेऽष्टयोजनोच्छ्रायेऽर्धविस्तृते योजनायामार्धविस्तृत त्रिगव्यूतोच्चचैत्ये सौवर्णे स्वपूर्वजश्रीभरतकारिते देवान् नत्वा तद्रक्षार्थं कृतपरिखो रजः पातकुपितज्वलनप्रभनागनिवारितोऽपि गङ्गाप्रवाहं तत्रानीतवान्। पङ्कपातदूननागदृष्टिविषेण