________________
भवभावना-४१
पतितौ कूपो मौलिवस्त्रादिना वेष्टयन्ति। निजजन्म चिरकालीनमप्यासन्नकालं कथयित्वा गोपायन्ति। आदिशब्दादन्यापि एवं प्रकारा मोहचेष्टा द्रष्टव्या॥४०॥
किन्नु पुनस्ते एवं कुर्वन्ति, न पुन: सम्यगुपाये लगन्ति? इत्याह[म्| न मुणंति मूढहियया, जिणवयणरसायणं चमोत्तूणं। सेसोवाएहि निवारिया वि हु ढुक्कइ पुणो वि जरा॥४१॥
न जानन्ति मूढहृदया जिनवचनरसायनं च मुक्त्वा ।
शेषोपायैः निवारितापि खलु ढौकते पुनरपि जरा॥४१॥] तर्हि जराभीतानां यत् सम्यक्कृत्यं यत्तद्भवन्तोऽप्युपदिशन्त्वित्याशक्य सदृष्टान्तं तदुपदिशन्नाह[] तो जइ अत्थि भयं ते, इमाइ घोराइ जरपिसाईए। जियसत्तु व्व पवज्जसु, सरणं जिणवीरपयकमलं॥४२॥
[ततो यदि अस्ति भयं ते अस्या घोराया जरापिशाच्याः।
जितशत्रुरिव प्रपद्यस्व शरणं जिनवीरपदकमलम्॥४२॥] [अव] गतार्था।
जितशत्रुनृपकथा] कथानकं चेदम्। जितशत्रुरित्ययं गुणत एव द्रष्टव्यः, बहूनां शत्रूणामनेन जितत्वात्, नामतस्तु सोमचन्द्राभिधानो द्रष्टव्यः। शास्त्रान्तरे च क्वचिद् गुणमाश्रित्य जितशत्रुतयासौ लिखितो दृष्ट इतीहापि तथैवोक्त:। आवश्यकादौ सोमचन्द्रतयैव प्रसिद्धः। अनेन च जराभीतेन प्रथममज्ञानात्तापसी दीक्षा गृहीता, पश्चात्तु श्रीमहावीरसकाशे। तत्पुत्रस्तु प्रसन्नचन्द्रो राजर्षिरभूत्। सक्षेपतोऽत्र विस्तरतो वृत्तितो ज्ञेया(यम्)॥४२॥
तदेवमुक्तं रोगजराविषयमशरणत्वम्। अथ मृत्युविषयं तद् बिभणिषुराह[] समुवट्ठियम्मि मरणे, ससंभमे परियणम्मि धावंते। को सरणं परिचिंतसु, एक्कं मोत्तूण जिणधम्म॥४३॥
[समुपस्थिते मरणे ससम्भ्रमे परिजने च ) धावति। कः शरणं परिचिन्तय एकं मुक्त्वा जिनधर्मम् ?॥४३॥]
१.वि इति पा. प्रतौ।