________________
भवभावना-४०
जरेन्द्रजालिन्याः कापि हताशाया असदृशा शक्तिः।
कृष्णानपि करोति केशान् मालतीकुसुमैरविशेषान्॥३७॥]
[अव] भ्रमरकुलाञ्जनकृष्णानपि केशाँस्तथा कथमपि जरेन्द्रजालिनी शुक्लान् करोति यथा ते मालतीकुसुमैर्निर्विशेषा भवन्ति। मस्तकनिबद्धमालतीकुसुमानां तेषां च शुक्लत्वेन विशेषो नावगम्यत इत्यर्थः॥३७॥
राक्षसी जरान्यामपि यां विडम्बनां करोति तां दर्शयति–दल.। [मू] दलइ बलं गलई सुइं, पाडइ दसणे निरंभए दिढेिं। जररक्खसी बलीण वि, भंजइ पिट्टि पि सुसिलिटुं॥३८॥
[दलयति बलं गलयति श्रुतिं पातयति दशनान् निरुणद्धि दृष्टिम्।
जराराक्षसी बलिनामपि भनक्ति पृष्ठिमपि सुश्लिष्टाम्॥३८॥] [मू] सयणपराभवसुन्नत्तवाउसिंभाइयं जरासेन्न। गुरुयाणं पि हु बलमाणखंडणं कुणइ वुड्ढत्ते॥३९॥
[स्वजनपराभवशून्यत्ववायुश्लेष्मादिकं जरासैन्यम्।
गुगुरुकाणामपि खलु बलमानखण्डनं करोति वृद्धत्वे॥३९॥] _[अव] जरागृहीतस्य अवश्यमेव प्राय: पुत्रकलत्रादिपरिभव: शून्यत्वं वायुः श्लेष्मादयश्च भवन्तीति विवक्षयैते जरासैन्यत्वेनोक्ताः। ते च महात्मनामपि बलमभिमानं च खण्डयन्ति, सर्वकार्याक्षमाननादेयाँश्च कुर्वन्तीत्यर्थः॥३९॥ [म्] जरभीया य वराया, सेवंति रसायणाइकिरियाओ। गोवंति पलियवलिगंडकवे नियजम्ममाईणि॥४०॥
[जराभीताश्च वराकाः सेवन्ते रसायनादिक्रियाः।
गोपायन्ति पलितवलिगण्डकूपौ निजजन्मादीनि॥४०॥]
[अव| जराभीताश्चाविवेकिनो वराका गन्धकादिरसायनानि सेवन्ते। तैश्च सेवितैर्जरा नापगच्छति। अपगमे वा समयान्तरे वा पुनरपि भवतीत्ययमनुपायोऽनैकान्तिकत्वादनात्यन्तिकत्वाच्च, तप:संयमादिविधानं तु तदपगमे सम्यगुपायो, मोक्षावाप्तेरवश्यमेव जरोच्छेदेन हेतृत्वेनैकान्तिकत्वान्मोक्षे पलिताभावेन पुनर्जराया(याः) सम्भवाभावाच्चात्यन्तिकत्वाद। अन्ये तु महामढा लोहकीटादिखरण्टनेन पलितानि गोपायन्ति। वलीश्च वस्त्रादिना गोपायन्ति। गण्डौ = कपोलौ तयोर्ब्रहत्त्वेन
१.गिलइ इति प्रा. प्रतौ।, २.पिढें इति पा. प्रतौ।