________________
भवभावना-३२
[म्] तह रज्जं तह विहवो, तह चउरंगं बलं तहा सयणा। कोसंबिपुरीराया, न रक्खिओ तह वि रोगाणं॥३१॥
[तथा राज्यं तथा विभवः तथा चतुरङ्गं बलं तथा स्वजनाः।
कौशाम्बीपुरीराजो न रक्षितः तथापि रोगेभ्यः॥३१॥] [अव] तह। तथा शब्दोऽतिशयख्यापनपरो द्रष्टव्यः। शेषं सुगमम्।
चन्द्रसेननृपकथा अत्र कथानकं यथा-कौशाम्ब्यां चन्द्रसेनो राजा, सुलोचन: सुतः। अन्यदा वसन्तक्रीडायां कृतलक्षस्वर्णव्यय: सुलोचनो राज्ञापमानितो देशान्तरं गतः। तत्सन्निधानात् क्वापि धातुवादिनां स्वर्णसिद्धिः। तैस्तस्य स्वर्णं दत्तम्। स कुरुदेशं गत:। हेमन्ते वनान्त: क्वचिन्नरं शीतार्तं निश्चेष्टं दृष्ट्वा कृपया सद्योज्वालि-ताग्नितापादिना सचैतन्यं चक्रे। स प्राह-“अहं राजपुरवासिपुरुषदत्तराज्ञः सूराख्य: सुतस्तुरगापहृतोऽत्रागतो निशि शीतपीडितस्त्वया सज्जीकृत:।” तेनापि स्वस्वरूप-मुक्तम्। द्वावपि प्रीतौ गजपुरं गतौ। सूरसंयोगात् सोऽपि दृढजिनधर्मो जात:। अन्यदा विरक्त: सूरः सुलोचनं पित्रो: पत्रस्थाने समर्प्य प्राव्रजत्। नृपोऽपि तं स्वपदे न्यस्य प्रव्रज्य स्वर्गत:। अन्यदा कौशाम्ब्यागतमन्त्री सुलोचनमाह-“देव! तव पिता चन्द्रसेन: कासादिरुग्(क्)पीडितस्त्वां मिमिलिषुरस्ति।” इति श्रुत्वा घनान्वैद्यमान्त्रिकादिल्लात्वा कौशाम्ब्यां गत्वा चिकित्सामकारयत्। तथाप्यनु[प]-शान्तरोगोऽत्राणो विपेदे। सुलोचन: पितुर्बहुरोगार्तस्याशरणतां ज्ञात्वा द्वे राज्ये त्यक्त्वा निर्विण्ण: प्रव्रज्य सिद्धः॥ इति कौशाम्बीपुरीराजकथानकम्॥३१॥ [म] सविलासजोव्वणभरे, वर्सेतो मुणइ तणसमं भुवणं। पेच्छइ न उच्छरंतं, जराबलं जोव्वणदुमग्गिं॥३२॥
[सविलासयौवनभरे वर्तमानो जानाति तृणसमं भुवनम्।
प्रेक्षते न उत्सर्पज्जराबलं यौवनद्रुमाग्निम्॥३२॥] ।
[अव] सवि.। जराया बलं परिकरभूतं वायुश्लेष्मेन्द्रियवैकल्यादिकमिदं च यौवनद्रुमस्याग्निरिव। यथाग्निर्दग्ध्वा भस्मावशेषं कुरुते द्रुमम्, एवं जराबलमपि पलितावशेष यौवनं विदधातीति भावः॥३२॥
किमत्यसौ तन्न पश्यतीत्याह