________________
भवभावना २६
७
[मू] इय जं जं संसारे, रमणिज्जं जाणिऊण तमणिच्चं । निच्चम्मि उज्जमेज्जसु, धम्मे च्चिय बलिनरिंदो व्व ॥२५॥ [इति यद् यद्त् संसारे रमणीयं ज्ञात्वा तदनित्यम्।
नित्ये उद्यच्छेः धर्मे चैव बलिनरेन्द्र इव ॥ २५ ॥]
[अव] तदेवं सति यत्कृत्यं तदुपसंहारपूर्वकं दर्शयन्नाह इय । बलिनरेन्द्रवद् ।
[बलिनरेन्द्रकथा]
यथा पश्चिमविदेहे गन्धिलावतीविजये चन्द्रपुर्यां श्रीअकलङ्कदेवो राजा, भार्या सुदर्शना, सुतो बलिनामा । स च विंशतिपूर्वलक्षाणि कुमारत्वेऽतिक्रम्य चत्वारिंशत्पूर्वलक्षाणि राजभोगान् भुञ्जानोऽनेकप्रौढपुण्यकृत्यैर्जिनमतं प्रभावयन् सुश्रावकः क्रियापरः। अन्यदा चतुर्दश्यामुपोषितो रात्रिपौषधा (धः)पश्चाद्रात्रौ शुभभावनापरः सर्ववस्तूनामनित्यतां पश्यन् संवेगमाप्तः श्रीकुवलयचन्द्रकेवलिपार्श्वे प्रव्रज्य समुत्पन्नकेवल आदेयवाक्यतयानेकभव्यप्रतिबोधेन लोकैर्विहितभुवन- भानुनामा तत्रैव विजये विजयपुरेशचन्द्रमौलिकमहानृपाग्रेऽत (न्त ) रङ्गोपदेशेन स्वानुरूपं स्वदुःखमुपदिश्य(स्वरूपमुपदिश्य) तं प्रव्राज्य देशोनचत्वारिंशत् पूर्वलक्षाणि प्रव्रज्यामाराध्य सिद्धः॥ इति बलिनरेन्द्रकथा। इति प्रथमभावना॥२५॥
[ द्वितीया अशरणभावना]
तद्व(द)स्तु सर्वस्याप्यनित्यता, धर्मं विनान्यच्छरणं भविष्यति किं जिनधर्मानुष्ठानेन? इत्याशङ्क्य द्वितीयामशरणभावनामाह
[मू| रोयजरामच्चुमुहागयाण बलि' चक्किकेसवाणं पि। भुवणे वि नत्थि सरणं, एक्कं जिणसासणं मोत्तुं॥२६॥ [रोगजरामृत्युमुखागतानां बलिचक्रिकेशवानामपि।
भुवनेऽपि नास्ति शरमेकं जिनशासनं मुक्त्वा॥२६॥]
[अव] रोगश्च जरा च मृत्युश्च तन्मुखागतानां बलदेवकेशवचक्रिणामपि जिनशासनादन्यो(न्यद्) भुवने शरणं नास्ति। अतस्तदेव शरणम्॥२६॥
तत्र जराश्वासादिरोगग्रस्तानां कुटुम्बं शरणं न स्यात्, नापि तद्दुःखं विभज्य
१. बल इति पा. प्रतौ।