________________
भवभावना - १९
स्वजनादिषु स्वां(रन्त्वा =) रतिं बद्ध्वा पञ्च दिनानि ततो निजकर्मैव प्रलयकालानिलास्तेनोत्क्षिप्ताः शुष्कपत्रतृणादिवत् क्वापि नरकादौ व्रजन्त्यदृश्या भवन्ति, यथा तेषां नामापि न ज्ञायते पश्चात् । पल्योपमसागरोपमापेक्षया मनुष्यभवस्याः (अवस्थाया) अपि तुच्छत्वख्यापनार्थं पञ्चदिनग्रहणम्॥१४॥ [मू] अहवा जह सुमिणयपावियम्मि रज्जाइइट्ठवत्थुम्मि । खणमेगं हरिसिज्जंति, पाणिणो पुण विसीयंती ॥१५॥ [अथवा यथा स्वप्नप्राप्ते राज्यादीष्टवस्तुनि । क्षणमेकं हृष्यन्ति प्राणिनः पुनर्विषीदन्ति ॥१५॥]
[अव] 'मदीयमन्दिरे तेजस्स्फुरद्रत्नराशयः, द्वारे तु महास्तम्भार्गलिताः प्रवरकरिणः, मेदुराः = सुजात्यतुरगाः, विहितश्च मे राज्याभिषेको महाविस्तरेण' इत्यादिप्रकारेण यथा स्वप्नेऽभीष्टवस्तुप्राप्तौ क्षणमेकं हृष्यन्ति जन्तवः, निद्रापगमे तन्मध्यादग्रतः किमप्यदृष्ट्वा विषीदन्ति॥१५॥
[मू] कइवयदिणलद्धेहिं, तहेव रज्जाइएहिं तसंति । विगएहि तेहि वि पुणो, जीवा दीणत्तणमुवेंति ॥ १६ ॥ [कतिपयदिनलब्धैस्तथैव राज्यादिकैस्तुष्यन्ति । विगतैः तैरपि पुनर्जीवा दीनत्वमुपयन्ति॥१६॥]
[अव] एवं साक्षात् कतिपयदिनलब्धराज्यादिष्वपि भावनीयम्॥१६॥ अथेन्द्रजालादिसादृश्येन सर्वसमुदायानामनित्यतामाह रूप्य. -
[मू] रुप्पकणयाइ वत्थं, जह दीसइ इंदयालविज्जाए । खदिट्ठनरूवं, तह जाणसु विहवमाईयं ॥ १७ ॥ [रूप्यकनकादि वस्तु यथा दृश्यते इन्द्रजालविद्यया। क्षणदृष्टनष्टरूपं तथा जानीहि विभवादिकम्॥१७॥]
[मू] संझब्भरायसुरचावविब्भमे घडणविहडणसरूवे । विहवाइवत्थुनिवहे, किं मुज्झसि जीव ! जाणंतो ? ॥ १८ ॥
[सन्ध्याभ्ररागसुरचापविभ्रमे घटनविघटनस्वरूपे।
विभवादिवस्तुनिवहे किं मुह्यसि जीव ! जानानः ?॥१८॥]
[मू] पासायसालसमलंकियाइं जड़ नियसि कत्थइ थिराई। गंधव्वपुरवराई, तो तुह रिद्धी वि होज्ज थिरा ॥१९॥