________________
भवभावना-११
[प्रथमा अनित्यत्वभावना अनित्यत्वभावनां तावदाह[मू सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठउ असारो। जीयं देहो लच्छी, सुरलोयम्मि वि अणिच्चाइं॥११॥
सर्वात्मनानित्यो नरलोकस्तावत् तिष्ठत्वसारः।
जीवितं देहो लक्ष्मीः सुरलोकेऽप्यनित्यानि॥११॥] _ [अव] नरलोकस्तावत् सर्वात्मना नगनगरग्रामभवनादिभिः सर्वप्रकारैरनित्य इति प्रत्यक्षसिद्धत्वात् तिष्ठतु। ये तु सुरलोका लोके शाश्वततया प्रसिद्धास्तत्रापि भवनादिभावानां कथञ्चिच्छाश्वतत्वेऽपि जीवितान्यनित्यान्येव। जीवितदेहयोः सुचिरमपि स्थित्वा कदाचित् सर्वनाशेन विनाशात्, लक्ष्म्या अपि महर्द्धिकैरपरैः तदपह्रियमाणत्वादिति॥११ [v] नइपुलिणवालुयाए, जह विरइयअलियकरितुरंगेहिं। घररज्जकप्पणाहि य, बाला कीलंति तुट्ठमणा॥१२॥
[नदीपुलिनवालुकादौ यथा विरचितालीककरितुरङ्गः।
गृहराज्यकल्पनाभिश्च बालाः क्रीडन्ति तुष्टमनसः॥१२॥] [म] तो सयमवि अन्नेण व, भग्गे एयम्मि अहव एमेव। अन्नोऽन्नदिसिं सव्वे, वयंति तह चेव संसारे॥१३॥
[ततः स्वयमपि अन्येन वा भग्ने एतस्मिन्नथवा एवमेव।
अन्यान्यदिशं सर्वे व्रजन्ति तथैव संसारे॥१३॥] [मू] घररज्जविहवसयणाइएसु रमिऊण पंच दियहाई। वच्चंति कहिं पि वि निययकम्मपलयानिलुक्खित्ता॥१४॥
[गृहराज्यविभवस्वजनादिकेषु रत्वा पञ्च दिवसान्। __ व्रजन्ति कुत्रापि निजककर्मप्रलयानिलोत्क्षिप्ताः॥१४॥] [अव] यथा नदीपुलिनवालुकादौ तथाविधतत्कार्यासाधकत्वेनालीकविरचितकरितुरङ्गमादिभिर्गृह- राज्यादिभिस्तुष्टमनसः क्रीडन्ति। ततः स्वयमेव यदृच्छयान्येन केनचिदेतस्मिन् करितुरङ्गादिके भग्नेऽभग्नेऽप्येवमेव स्वेच्छयान्यान्यदिक्षु ते सर्वेऽपि व्रजन्ति। एवं संसारेऽपि सुरनरचक्रवर्त्यादयः प्राणिनो गृहराज्यविभवभार्या