________________
१५२
भवभावना-५२८
[मू] उवयारो य इमीए, संसारासुइकिमीण जंतूणं । जायइ न अहव सव्वण्णुणो वि को तेसु अवयासो ? ॥ ५२८ ॥
[उपकारश्चानया संसाराशुचिकृमीणां जन्तूनाम्।
जायते न अथवा सर्वज्ञस्यापि कस्तेष्ववकाशः ? ||५२८ ॥ ]
[मू
तो अणभिनिविट्ठाणं, अत्थीणं किं पि भावियमईणं । जंतूण पगरणमिणं, जायड़ भवजलहिबोहित्थं ॥ ५२९ ॥ [ततोऽनभिनिविष्टानामर्थिनां किमपि भावितमतीनाम् ।
जन्तूनां प्रकरणमिदं जायते भवजलधिबोहित्थम्॥५२९॥]
[अव संसाररूपाशुचिकृमीनां जन्तूनामनेन कदाचिदप्युपकारो न जायते । अथवा छद्मस्थमात्रेण मादृशेन विरचिता तिष्ठत्वियम्, सर्वज्ञस्यापि तेषु संसाराभिनन्दिषु प्रतिबोधप्रकारैः कर्तव्ये कोऽवकाशः ? तेषामभव्यत्वेन वा केनाप्युपकर्तुमशक्यत्वात्। तस्मात् कदाग्रहमनभिनिविष्टानां धर्मार्थिनां किञ्चिद् जिनवचनभावितमतीनां जन्तूनां प्रकरणमिदं संसारसमुद्रे प्रवहणसदृशं जायते। इति भावार्थः॥५२८॥
अथ ग्रन्थसङ्ख्या गाथया प्राह
[मू] इगतीसाहियपंचहि, सएहिं गाहाविचित्तरयणेहिं । सुत्ताणुगया वररयणमालिया निम्मिया एसा॥५३०॥ [एकत्रिंशदधिकपञ्चभिः शतैः गाथाविचित्ररत्नैः।
सूत्रानुगता वररत्नमालिका निर्मिता एषा ॥ ५३० ॥ ]
[अव] स्पष्टा॥५३०॥
[मू] भुवणम्मि जाव वियरइ, जिणधम्मो ताव भव्वजीवाणं । भवभावणवररयणावलीइ कीरउ अलंकारो ॥५३१॥
[भुवने यावद्विचरति जिनधर्मस्तावद्भव्यजीवानाम्। भवभावनावररत्नावल्या क्रियतामलङ्कारः॥५३१॥
॥इति श्रीभवभावनाप्रकरणावचूरिः सम्पूर्णीभूता ।। इति शुभं भवतु ॥
१. लेखकप्रशस्तिः- संवत् १५२५ वर्षे वैशाख शुदि १५ भूमे।। अद्येह बाडोद्राग्रामे लिखिता॥छ। ॥ग्रन्थाग्रम्॥१३५०॥ शुभं भवतु ॥
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेत्शिथिलबन्धनात्। परहस्तगता रक्षेदेवं वदति पुस्तिका।।