________________
भवभावना-५००
१४५
दिट्ठ। मुक्को दोरेण हिट्ठा। गओसो तहिंचेव हट्टे। नायं रन्ना। विसन्नो मणसा। इओ मंती वि तत्थागओ निअधूआचरिअं कहेइ। राया भणइ–“ममावि तुल्लमिणं ति।” पभाए वरं गवेसवेइ। आणिओ सो चेव पारिणेत्तवत्थपरिहाणो। भणिओ रन्ना “तमं स मुग्गवाणिओ त्ति।” सो वि वित्तंतं कहेइ। तओ मंतिणा विमंसिऊण महामहे परिणाइओ। बारससयगामसामिओ कओ। चेइअकारणाइणा जिणधम्ममाराहिऊण निअपूआफलदसणेण रायं मंतिं च पडिबोहिऊण कमा पवज्जिउण सिद्धो। इति लोकधर्मफले पुराधिपनन्दनकथा।
१. श्रीधरणीतिलकनगरे सुन्दरश्रेष्ठी अथान्यदा पुत्रः। उदरे स्थिते जनको जाते च उपरता जननी॥१॥ जातः कुलस्यापि क्षयो नष्टो विभवश्च परिजनः सर्वः। ततः करुणया लोकेन पालितो दुर्गतो नाम॥२॥ नगरं मुक्त्वा गतः शालिग्रामं करोति व्यवसायं। यद् यत् स स जायते विफलः कर्मानुभावेन॥३॥ इतः निशृणोति धर्मं कदापि शुभकर्मपरिणतिवशेन। साधुसकाशे ततः कृत्वा एवं समारब्धवान्॥४॥ भागेन चित्वा मालतिकुसुमानि नयति जिनभवने। पूजयति वन्दते बिम्बान करोति आरात्रिकादिकम्॥५॥ कदाचिदपि खलु मुद्गानां पोट्टलं उत्पाट्य शीर्षण। व्रजति अचलपुरे विश्राम्यति क्षणं तदुद्याने॥६॥ दृष्ट्वा सिद्धपुत्रं पुस्तकहस्तं परेण विनयेन। पृच्छति किमस्यां पुस्तिकायां लिखितमिति स आह॥७॥ शकुनानां फलं ते कीदृशमिति स दुर्गतेन पुनरुक्तम्। पृष्टः क्षुतादिफलं साधयति प्रथममपि तं च इदम्॥८॥ पूर्वदिशा ध्रुवफला भवति इत्यादि दुर्गफलम्। निर्गमे शोभना वामा इत्यादि। ___ ततः स पुन ऊर्ध्वकरो नृत्यति दुर्गतः। पृच्छति सिद्धपुत्रः-“भद्र! किं नृत्यसि?” स भणति–“यत् प्रशस्ताः शकुनाः त्वया कथिताः ते सर्वे ममाद्य सञ्जाताः तेन नृत्यामि।” “यदि तव एवंविधाः प्रशस्ताः शकुना जाताः ततोऽद्य तव द्वयोः कन्ययोः पाणिग्रहणं राज्यं च भविष्यति इति।” पुत्रः स गतः। अत्रान्तरे तत्र विक्रमराजा समागतः। तं तथा नृत्यन्तं दृष्ट्वा पृच्छति कारणम्। ततोरुष्टो राजा नगरे उद्घोषयति यः पञ्च दिनानि बहिरागतान् मुद्गान् ग्रहिष्यति तस्य दण्डः कर्तव्य इति श्रुत्वा तस्य मुद्गान् कोऽपि न लाति। सोऽपि सर्वं दिनं भ्रान्त्वा रात्रिं सुप्त एकस्मिन् शून्यापणे मुद्गपोट्टलं मस्तके दत्त्वा। ___ इतः तत्र सुमतिमन्त्री, धूता सौभाग्यसुन्दरी, सुदर्शननाम्नि इभ्यपुत्रे अनुरक्ताच्छन्नं परिजनमुखेन परिणयहेतुः तत्र तस्य सङ्केतः। दत्तसंयोगः तत्र नागतः। ततः सा तत्रागता दर्गतमन्धकारे हस्ते लग्ना प्रतिबोध्य प्रवरवस्त्राणि परिधापितः हाराहारशृङ्गारं दत्त्वा परिणयति। परिजनः भणति “अद्य स्वामिनी पूर्णमनोरथा पुनराग्रहः विधिः प्रमाणम्” सोऽपि भणति–“एवमेव” ततः असदृशशब्दं श्रुत्वा सा उद्योतं कृत्वा तं प्रलोकयति। एष कोऽपि अन्य इति कृत्वा गता सा गृहम्। सास्थलगतमीन इवव्याकुलत्वं कुर्वाणास्मरति। ज्ञातं जनन्या सर्वम। तया साधितं मन्त्रिणः।।
इतश्च राजसुता अनङ्गश्रीः। सापि किमपि सामन्तसुते अनुरक्ता। सापि छन्नपरिणयहेतवे तस्य सङ्केतं कथयति-“यथा अद्य गृहगवाक्षस्य अधः लम्बमानदवरिकायां सुप्रतिलग्नो भव।” केनापि कारणेन स तत्र नागतः। इतो दुर्गत उत्थाय चलितः। दैवयोगेन तत्रैवागतः। दवरिकां चालयति। सखिभिः “सुप्रतिलग्नः भव।” इति भणिते स चिन्तयति–'एतद् द्वितीयं नाटकं उपस्थितम्। ततो गाढतरं दवरिकायां लग्नः। गतः उपरि। तथैव कृतं पाणिग्रहणम्। तथैव भणितं सखिभिः। दुर्गतः तथैव भणति। शङ्कायामुद्योते कृते मुखं दृष्टम्। मुक्तो दवरिकया अधः। गतः स तत्र चैव आपणे। ज्ञातं राज्ञा। विषण्णो मनसा। इतो मन्त्री अपि तत्रागतो निजधूताचरित्रं कथयति। राया भणति–“ममापि तुल्यमिदमिति।” प्रभाते वरं गवेषयति। आनीतः स चैव पारिणेय्यवस्त्रपरिधानः। भणितः राज्ञा–“त्वं स मुद्गवणिक इति।” सोऽपि वृत्तान्तं कथयति। ततो मन्त्रिणा विमर्श्य महामहेन परिणायितः। द्वादशशतग्रामस्वामी कृतः। त्यागकारणादिना जिनधर्ममाराध्य निजपूजाफलदर्शनेन राजानं मन्त्रिणंच प्रतिबोध्यक्रमात प्रव्रज्य सिद्धः।