________________
१४६
भवभावना-५०२
राजदुहिताख्यानकम्। यमुनातीरे रत्नवतीपुर्यां अमरकेतुर्नृपः, रत्नवती भार्या। तयोः सप्त पुत्र्यः, अष्टमी पुत्री जाता। मात्रा खेदेन काष्टमञ्जूषायां क्षिप्त्वा यमुनायां प्रवाहिता। अश्वपुरे सप्तपुत्रीदुःखतप्तसुलसवणिजा द्रव्यलोभातिरेकाद् मञ्जूषा गृहीता। गृहमानीयोद्धाट्य विलोक्य बालिकां खिन्नः। कृपया पालिता। यमुनेति नाम दत्तम्। सा यौवनं प्राप्ता। दुःखिनी वनादिन्धनान्यानयति। अन्यदा मुनेर्मुखाद्धर्मं श्रुत्वा षष्ठादितपःपरा जिनवन्दनपरा गृहधर्मं पालयति। तत्प्रभावात् सुखिनी जाता। अन्यदा नृपपुत्रेण मकरध्वजेन यक्ष आराधितः। प्रधानगुणालङ्कारिराज्योदयकारिभार्यारत्नं प्रार्थयति। यक्षस्तुष्टः स्माह–“रत्नवतीपुरी अमरकेतुनृपसुता यमुना नाम्नी मञ्जूषाप्रयोगादत्रागता सुलसश्रेष्ठिगृहेऽस्ति। सा तवाभ्युदयकारिणी भाविनी धर्मप्रभावात्।” ततो मकरध्वजेन सा परिणीता। स कालेन राजा जातः। यमुना पट्टराज्ञी जाता। सुलसो नगरश्रेष्ठी जातः। इतश्चान्यदा मकरकेतुर्नृपो वैरिणा गृहीतसमग्रसाम्राज्यः सकुटुम्बस्तत्रागतः। यमुनावचनान्नगरग्रामादिना सत्कृतो मकरध्वजेन। तत्र स्थिताः सर्वेऽपि धर्मप्रभावं दृष्ट्वा धर्मवन्तो जाताः। राज्यं कृत्वा दीक्षां लात्वा तपः कृत्वा केवलज्ञानमासाद्य शिवमापुरनन्तसुखभाजनं जाताः। राजदुहिताख्यानकम्। बोधिभावनावचूरिः॥ ___एताभिर्भावनाभिः किं सिद्ध्यतीत्याह[म] इय भावणाहि सम्मं, णाणी जिणवयणबद्धमइलक्खो। जलणो व्व पवणसहिओ, समूलजालं दहइ कम्मं॥५०१॥
[इति भावनाभिः सम्यग् जिनवचनबद्धमतिलक्ष्यः।
ज्वलन इव पवनसहितः समूलजालं दहति कर्म॥५०१॥] । - [अव] सुखोन्नेये। ज्ञानी जिनवचनबद्धलक्षो कर्म क्षपयति, न केवलं भावनाभिः कर्म क्षिपति किन्तु साहाय्यमपेक्षते इति ज्ञानामाहात्म्यमुकीर्तयन्नाह[v] नाणे आउत्ताणं, नाणीणं नाणजोगजुत्ताणं। को निज्जरं तुलेज्जा, चरणम्मि परक्कमंताणं ?॥५०२॥
[ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानाम्।
को निर्जरां तोलयेत् चरणे पराक्रामताम्॥५०२॥] [अव] नाणे.इत्यादि गाथा सुगमा। नवरं येषां सम्यग्ज्ञानं स्युरिति ते