________________
भवभावना-३
[मू] संवेअमुवगयाणं, भावंताणं भवण्णवसरूवं। कमपत्तकेवलाणं, जायइ तं चेव पच्चक्खं॥३॥
[संवेगमुपगतानां भावयतां भवार्णवस्वरूपम्।
क्रमप्राप्तकेवलानां जायते तदेव प्रत्यक्षम्॥३॥] _ [अव] इदमुक्तं भवति–तीव्रसंवेगापन्नानां दुरन्तानन्तदुःखात्मकं भवस्वरूपं भावयतां प्रतिक्षणं तत्र निर्वेदः समुत्पद्यते, संवेगः प्रकर्षमुपगच्छति। ततश्चेत्थं भाव्यमाने भवस्वरूपे प्रतिसमयं प्रकर्षमश्नुवाने शुभध्यानाग्नौ दह्यमाने अतिगहनघातिकर्ममहावने क्रमशः समालोकितलोकालोकस्वरूपं केवलज्ञानमाविर्भवति। ततः पूर्वप्रभवभावनायां यत्सिद्धान्तपरतन्त्रतयैव दृष्टम्, न साक्षात्, एवं भवस्वरूपं समुत्पन्नकेवलानां साक्षात् प्रत्यक्षं भवति, तदनन्तरं च मोक्ष इत्येवं केवलज्ञान फलत्वात्सर्वदैव भवभावनायां यत्नो विधेय इति भावः॥३॥ [म्। संसारभावणाचालणीइ सोहिज्जमाणभवमग्गे। पावंति भव्वजीवा, नटुं व विवेयवररयणं॥४॥
[संसारभावनाचालन्या शोध्यमानभवमार्गे।
___प्राप्नुवन्ति भव्यजीवाः नष्टमिव विवेकवररत्नम्॥४॥] [म्] संसारसरूवं चिय, परिभावंतेहिं मुक्कसंगेहि। सिरिनेमिजिणाईहिं, वि तह विहिअं धीरपुरिसेहि॥५॥
[संसारस्वरूपं चैव परिभावयद्भिर्मुक्तसङ्गैः।।
श्रीनेमिजिनादिभिरपि तथा विहितं धीरपुरुषैः॥५॥] [अव] भवस्वरूपमेव च परिभावयद्भिः श्रीमन्नेमिजिनादिभिरपि मुनीश्वरैः धीरपुरुषैस्तथा = तेन शास्त्रलोकप्रसिद्धेन प्रकारेण विहितं तं प्रव्रज्यामहाभारोद्वहनादिकं सदनुष्ठानमिति गम्यते। इदमुक्तं भवति–अनित्यरूपतया निःसारोऽयं संसारो दुःखहेतवश्चेह योषिदादिभावा इत्यादिरूपेण भवस्वरूपं परिभावयद्भिः श्रीनेमिजिनादिरपि तत्सदनुष्ठानं विहितम्। श्रीनेमिचरित्रमत्र ज्ञेयम्।
१. 'च भवोपग्राहिकर्मक्षय इत्येवं मोक्षावाप्तिफलत्वात् स' इति वृत्तौ। २. छाया-धनधनवत्यौ सौधर्मे चित्रगतिः खेचर: च रत्नवती३। माहेन्द्रे अपराजित प्रीतिमती आरणे ततः॥१॥
शखः यशोमती भार्या ततः अपराजिते विमाने । नेमिराजमत्यौ अपि च नवमभवे द्वावपि वन्दे॥२॥