________________
मलधारि हेमचन्द्रसूरिकृता
॥भवभावना॥ ॥अज्ञातकृत-अवचूरिसहिता॥
[मङ्गलाचरणम्।
[मू] णमिऊण णमिरसुरवरमणिमउडफुरंतकिरणकब्बुरि। ___ बहुपुन्नंकुरनियरंकियं व सिरिवीरपयकमलं॥१॥
[नत्वा नम्रसुरवरमणिमुकुटस्फुटत्किरणकर्बुरितम्।
बहुपुण्याङ्कुरनिकराङ्कितमिव श्रीवीरपदकमलम्॥१॥] [मू] सिद्धंतसिंधुसंगयसुजुत्तिसुत्तीण संगहेऊणं। मुत्ताहलमालं पिव, रएमि भवभावणं विमलं॥२॥
[सिद्धान्तसिन्धुसङ्गतसुयुक्तिशुक्तिभ्यः सङ्ग्रह्य।
मुक्ताफलमालामिव रचयामि भवभावनां विमलाम्॥२॥] [अव] द्वाभ्यां गाथाभ्यां सम्बन्धः। विभूषितं मण्डितमिति यावत्। बहु यत्पुण्यं तस्यातिबहुत्वादेव मध्यं पूरयित्वा शेषस्य तत्रावकाशमलभमानस्येव स्फुटित्वा = बहिर्निर्गत्य येऽङ्कुरास्तेषां निकरः = सङ्घातः तेन वाङ्कितम् = मण्डितमित्येव' शब्दस्य योजना द्रष्टव्या॥१॥
सिद्धान्त एव सिन्धुः = समुद्रः, तत्सङ्गताः = तदाश्रिताः, याः सुयुक्तयः = शोभनाः प्रमाणाबाधितत्वेन विशिष्टा जीवादितत्त्वप्रतिष्ठाप्त हेतूक्तिरूपा युक्तयो यासु ताः सुयुक्तयः प्रज्ञप्तिप्रज्ञापना-जीवाभिगमादिकाः शास्त्रपद्धतयस्ता एव मुक्ताफलाधारभूतशुक्तयस्ताभ्यः। इदमुक्तं भवति यथा कश्चित् समुद्रसङ्गतशुक्तिमुक्ताफलानि सङ्गृह्य विमलां तन्मालां रचयति एवं महत् सिद्धान्ताश्रितविचित्रशास्त्रपद्धतिभ्यः अर्थान् सङ्ग्रह्य विमलां शास्त्रभवभावनां शास्त्रपद्धतिं रचयामि। एतेनेदमाख्यातं भवति–नेह शास्त्रे स्वमनीषिकयाक्षरमपि भणिष्यते किन्त्वागमानुसारेणैव वक्ष्यते सर्वमिति॥२॥
१. 'इत्येवं इव' इति वृत्तौ।, २. 'ष्ठाप्तिहे' इति वृत्तौ।, ३. 'वमहमपि सि' इति वृत्तौ।