________________
भवभावना-४६३
१३५
[अव| जे. इति पर्यन्ता गाथा सुगमाः। नवरं वारी गजबन्धनार्थं गर्ता, गृहमेव [चारकबन्धनं गुप्तिनियन्त्रणम् ॥४५७-४६२॥
अथोत्तमगुणवतां महर्षिवराणां नमस्कारणेन बहुमानमाविर्भावयति[मू] पणमामि ताण पयपंकयाइं धणखंदपमुहसाहूणं। मोहसुहडाहिमाणो, लीलाए नियत्तिओ जेहिं॥४६३॥
[प्रणमामि तेषां पदपङ्कजानि धनुस्कन्दप्रमुखसाधूनाम्।
मोहसुभटाभिमानो लीलया निवर्तितो यैः॥४६३।।] [अव] स्पष्टा। कथानकमिदम्
[धनुर्महर्षिकथा] काकन्द्यां धनसार्थपतिर्भद्रा भार्या, धनुर्नामा पुत्रः। पिता मृतः।पुत्रो यौवनं प्राप्तः। मात्रा ३२(द्वात्रिंशत्) कन्याः परिणायितः, ३२(द्वात्रिंशत्) आवासाः कारिताः। भोगपुरन्दरः। अन्यदा श्रीवीरपार्श्वे धर्मं श्रुत्वा प्रवव्राज। यावज्जीवंषष्ठतपः कार्यमुज्झितभिक्षया पारणं च कार्यमित्यभिगृह्णाति। एकादशाङ्गधरो जातः। तपसास्थिचर्मावशेषतनुर्जातः। श्रेणिकपृष्टेन भगवता श्रीवीरेण दुष्करकारक इति प्रशंसितः। नवमासी तपस्यामाराध्य सर्वार्थसिद्धौ देवो जातः। ३२(द्वात्रिंशत्) सागरायुर्विदेहे मोक्षंगमीति। धनुर्महर्षिकथा।
स्कन्देत्यपरनामस्वामिकार्तिकेयकथा] कार्तिकपुरे अग्निभूपः, कृत्तिका सुता, रूपवती राज्ञी, रूपमोहितेन पुत्र्यपि परिणीता। पुत्रो जातः। स्वामिकार्तिकेय इति नामा। तस्य वीरश्रीर्भगिनी। सा रोहितपुरे क्रौञ्च नृपस्य दत्ता। अन्यदा कस्मिंश्चित् पर्वणि सर्वेषां कुमाराणां मातुलगृहात् प्राभृतान्यागच्छन्ति। कार्तिकेयो जननीमाह–“मम किं मातुलगृहं नास्ति? इति।” सा रोदिति, प्राह च–“वत्स! तव मम पितैक एव।” सम्यग्वृतान्तमाह। स ततो निर्विण्णकामभोगः कुमारः प्रवव्राज। गीतार्थो जातः। एकाकिविहारप्रतिमां प्रतिपन्नः कक्किन्धपर्वते स कायोत्सर्ग प्रपेदे। तद्दिने मेघवृष्ट्या सर्वमपि देहमलं प्रक्षाल्य जलं पार्श्वस्थपाषाणहृदे गतम्। सर्वाधिव्याधिहरं सर्वौषधिरूपं जातम्। ततस्तत्स्नानतः सर्वो जनः सर्वरोगैः प्रमुच्यते। दक्षिणदिशि तदद्यापि प्रवर्तते तीर्थम्। इतश्च कार्तिकमुनिः विहरन् रोहितकपुरे भिक्षार्थं भगिन्या गृहे प्राप। कृशाङ्गं दृष्ट्वा सा रोदिति भगिनी। 'नूनमस्या अयं हृदयदयित' इति भूपो बाणेन तं विध्यति। स भूमौ पपात।