________________
भवभावना ४५६
नाणं पयासगं सोहगो तवो संजमो य गुत्तिकरो। तिण्हं विसमाओगे मोक्खो जिणसासणे भणिओ ॥' (विशेषावश्यकभाष्य-११६९)इत्यादि॥४५५॥
१३३
पुनरपि तपःशोधितकर्ममलानां मुनीनां नामग्राहं प्रणतिमाह[मू तवहुयवहम्मि खिविऊण जेहि कणगं व सोहिओ अप्पा । ते अइमुत्तयकुरुदत्तपमुहमुणिणो नम॑सामि॥ ४५६ ॥
[तपोहुतवहे क्षिप्त्वा यैः कनकमिव शोधित आत्मा। तान् अतिमुक्तककुरुदत्तप्रमुखमुनीन् नमस्यामि॥४५६॥]
[अव] तपसा कर्म निर्जरताप्युत्तमगुणेषु बहुमानः कार्यः । अन्यथा तपसोऽपि तथाविधफलाभावाद्। भावार्थः कथातोऽवसेयः। सा चेयं यथा–पासाल(पोलास)पुरे विजयो राजा, श्रीराज्ञी, अतिमुक्तक पुत्रः। अष्टवार्षिको जातः। पुररथ्यायां कनककन्दुकेन क्रीडति। इतश्च श्रीवीरः समवसृतः । गौतमः षष्ठपारणके गोचरचर्यायां भ्राम्यति। तं दृष्ट्वातिमुक्तको हृष्टः। भणति – “के यूयम्? किमर्थमटत?” गौतमः स्माह–“वयं श्रमणा निर्ग्रन्था भिक्षार्थेऽ(म)टामः । " स वक्ति - " तर्हि मम गृहमागच्छत, भिक्षां ददामि” कराङ्गुल्या गृहीत्वा गौतमं गृहं नयति । प्रतिलाभितोऽसौ विशुद्धभक्त्यान्नपानीयैः। पृच्छति च “यूयं क्व यास्यथ?” गौतमः स्माह - “ अस्माकं धर्माचार्योऽस्ति श्री वीरस्तत्पार्श्वे” सोऽपि सहागतो गौतमेन । श्रीवीरदेशनां श्रुत्वा प्रबुद्धः ।
जं चेव य जाणामि तं चेव न वेति॥` (अन्तकृद्दशा - अध्ययन १५ सूत्र ९२) प्रकारैर्मातापितरौ प्रबोध्य प्रवव्राज । अन्यदा वर्षासमये जलप्रवाहे क्रीडया पतद्ग्रहं तारयति। स्थविरैर्वारितः। श्रीवीरान्ते ते पृच्छन्ति–“अतिमुक्तको बालर्षिराराधको विराधको वेति?” श्रीवीरः स्माह-“अत्रैव भवे गुणरत्नतपसा केवलमासाद्य सेत्स्यति।” ततो हृष्टाः स्थविरास्तं पालयन्ति । प्रौढो जातः । गुणरत्नतपः कृत्वा १२ ( द्वादश) भिक्षुप्रतिमाः कुरुते। मोक्षं गतः। इत्यतिमुक्तककथा।
[कुरुदत्तकथा]
नागपुरे कुरुदत्तश्रेष्ठिपुत्रो यौवनं प्राप्तः । निर्विण्णः कामभोगेभ्यः प्रभूतधनधान्यादि त्यक्त्वा प्राव्राजीत्। गुणरत्नसंवत्सरकनकावल्यादि तपांसि तप्यति स्म । अन्यदा
१. ज्ञानं प्रकाशकं सुभगं तपः संयमश्च गुप्तिकरः । त्रयाणामपि समायोगे मोक्षो जिनशासने भणितः ॥ २. यच्चैव जानामि तदेव न ।