________________
१३२
मोक्षप्राप्त्यभावात्। अतोऽनन्तरं निर्जराभावनोच्यते । निर्जरा च चिरबद्धस्य कर्मणो मुक्तावलीप्रमुखतपोविशेषैर्भवतीति तान्याह
[मू| कणगावलि-रयणावलि-मुत्तावलि-सीहकीलियप्पमुहो । होइ तवो निज्जरणं, चिरसंचियपावकम्माणं ॥ ४५१ ॥
[कनकावलि-रत्नावलि-मुक्तावलि-सिंहक्रीडितप्रमुखानि। भवति तपः निर्जरणं चिरसञ्चितपापकर्मणाम्॥४५१॥]
भवभावना-४५१
[अव] स्पष्टा ॥४५१॥
[मू] जह जह दढप्पइन्नो, वेरग्गगओ तवं कुणइ जीवो। तह तह असुहं कम्मं, झिज्जइ सीयं व सूरहयं ॥ ४५२॥ [यथा यथा दृढप्रतिज्ञो वैराग्यगतस्तपः करोति जीवः। तथा तथाशुभं कर्म क्षीयते शीतमिव सूरहतम्॥४५२॥]
[मू] नाणपवणेण सहिओ, सीलुज्जलिओ तवोमओ अग्गी। दवहुयवहो व्व संसारविडविमूलाई निद्दहइ ॥ ४५३॥
[ज्ञानपवनेन सहितः शीलोज्ज्वलितः तपोमयोऽग्निः । दवहुतवह इव संसारविटपिमूलानि निर्दहति॥४५३॥]
[मू] दासोऽहं भिच्चोऽहं, पणओऽहं ताण साहुसुहडाणं । तवतिक्खखग्गदंडेण सूडियं जेहि मोहबलं॥४५४॥
[दासोऽहं भृत्योऽहं प्रणतोऽहं तेषां साधुसुभटानाम्। तपस्तीक्ष्णखड्गदण्डेन सूदितं यैर्मोहबलम्॥४५४॥]
[मू] मइलम्मि जीवभवणे, विइन्ननिब्भिच्चसंजमकवाडे । दाउ नाणपईवं, तवेण अवणेसु कम्ममलं ॥ ४५५॥
[मलिने जीवभवने वितीर्णनिबिडसंयमकपाटे ।
दत्त्वा ज्ञानप्रदीपं तपसा अपनय कर्ममलम्॥४५५॥]
[अव] जीव एव भवनम् =गृहं तस्मिन् कर्मकचवरमलिने आगन्तुकमलनिषेधार्थं वितीर्णघननिच्छिद्रसंयमकपाटे ज्ञानप्रदीपं दत्त्वा पिटकादिस्थानीये तपसा कर्मणोऽपनयनेन निर्वृत्तिमवाप्नोति इत्यर्थः। उक्तंच