________________
भवभावना-४५०
[गुणकारकाणि बाढं धृतिरज्जुनियन्त्रितानि तव जीव !।
निजकानीन्द्रियाणि वल्लिनियुक्ताः तुरङ्गा इव॥४४७॥] [म] मणवयणकायजोगा, सुनियत्ता ते वि गुणकरा होति। अनिउत्ता उण भंजंति मत्तकरिणो व्व सीलवणं॥४४८॥
[मनोवचनकाययोगाः सुनिवृत्ताः तेऽपि गुणकरा भवन्ति।
अनिवृत्ताः पुनो भञ्जन्ति मत्तकरिण इव शीलवनम्॥४४८॥] [म] जह जह दोसोवरमो, जह जह विसएसु होइ वेरग्गं। तह तह विन्नायव्वं, आसन्नं से य परमपयं॥४४९॥
[यथा यथा दोषोपरमो यथा यथा विषयेषु भवति वैराग्यम्।
तथा तथा विज्ञातव्यमासन्नं तस्य परमपदम्॥४४९॥] [म] एत्थ य विजयनरिंदो, चिलायपुत्तो य तक्खणं चेव। संवरियासवदारत्तणम्मि जाणेज्ज दिटुंता॥४५०॥
[अत्र च विजयनरेन्द्रः चिलातपुत्रश्च तत्क्षणं चैव।
संवृताश्रवद्वारत्वे जानीयाद् दृष्टान्तौ।।४५०॥] [अव कथानकगम्योऽर्थस्तच्चेदम
विजयनरेन्द्रकथा] विजयवर्द्धनपुरे विजयो राजा, चन्द्रलेखा राज्ञी जिनमतभाविता शीलवती। तत्सङ्गत्या राजापि जिनधर्मभावितो जातः। अन्यदोज्जयिनीशेन चन्द्रलेखागुणश्रवणजातानुरागिणो दूतः प्रहितस्तद्याचनाय। विजयेनापमानितः। कुपित उज्जयिनीशः सर्वबलेन समागतः। विजयोऽपि सम्मुखं गतः। द्वयोर्युद्धं जातम्। प्रहारैर्जर्जरो विजयो निर्गत्य समरभूमेः पञ्चमुष्टिकृतलोचो दीक्षां लात्वा निरुद्धाश्रवद्वारः कायोत्सर्गेन स्थितः। गलच्छोणितगन्धनिर्गतकीटिकाभिश्चालनीवत्कृतः। सप्तदिवसेऽन्तकृत्केवली जातः। चन्द्रलेखापि तत्स्वरूपं श्रुत्वा निजशीलरक्षार्थं प्रच्छन्नं निर्गत्य साध्वीपार्श्वे प्रव्रज्य स्वर्गता। इति विजयनरेन्द्रकथा। चिलातीपुत्रकथा प्रसिद्धा॥४५०॥ इति संवरभावना नवमी॥
दशमी निर्जराभावना] नवमीभावनानन्तरं दशमीभावनामाह अनन्तरभावनायामस्यां बध्यमानकर्मणो रागादिनिग्रहेण संवर उक्तश्चिरबद्धं तु सत्तायां विद्यते तदपि निर्जरणीयमेव, अन्यथा