________________
भवभावना-४४२
१२९
वपुषा च यौवनं प्राप्ता। उज्जयिनीवासी बन्धुदत्तश्रेष्ठिना परिणीता श्वसुरगृहेऽस्ति। श्रीपतिर्देशान्तराद्वलितो वर्षत्रयेण तत्रोज्जयिन्यां प्राप्तः । वर्षाकाले तत्र भाण्डान्युत्तार्य तस्थौ। बन्धुदत्तेन सह प्रीतिर्दत्ता। तद्गृहे गतागतं कुर्वाणः श्रीपतिरन्यदा रूपवत्यां प्रसक्तो जातः। मासचतुष्टयमतिवाह्य कौशाम्ब्यामागतः । अन्यदा भार्यया पुत्री आनायिता। गता च सा स्नानमण्डपे स्नानार्थमागतेन श्रीपतिनायान्ती दृष्टा । परं स तया न दृष्टः । स चिन्तयति–'हा! दैव! किमैतत् ? अहमुज्जयिन्यां मासचतुष्टयं यया सह स्थितोऽनाचारवान् सा चैषा मम पुत्री । ततः कथमहं पापात्मा मुखमस्या दर्शयामि?” इति विचिन्त्य वैराग्यात् कस्याप्यकथयित्वापरद्वारेण निर्गतः। साधुपार्श्वे व्रतमादाय प्रायश्चित्तेनात्मानं विशोध्य वैमानिकदेवो जातः। रूपवत्यपि जनकपरिजनं दृष्ट्वोपलक्ष्य चिन्तयति मनसि। क्षणमेकं चिन्तयित्वा 'आ! हा! हा! धिक् ! किमेतत् ? येन समं मयानाचारः कृतः स नूनं मम पिता, यतः स एवायं परिवारः, ततः किं पापाया मम जीवितेन?' इति विमृश्य मरणोन्मुखा भृगुपातं क्वापि गिरौ कुर्वाणा ऋषिणा वारिता। साध्वीपार्श्वे व्रतं लात्वा स्वर्गता। इति मैथुने श्रीपतिवणिक्कथा।
[सुनन्दसुन्दरकथा]
भद्दिलपुरे सुनन्दसुन्दरौ वणिजौ भ्रातरौ । सुनन्दः शुद्धसम्यग्दृष्टि द्वादशव्रती कृतपरिग्रहपरिमाणः प्रत्यहं द्विरावश्यक - त्रिकालदेवपूजा-सामायिक-पौषधपरः, सुन्दरस्त्वर्थार्जनैकर्दृष्टिर्धर्मनामापि न जानाति । वृद्धबान्धवं सन्तोषपरं नियमित१५ (पञ्चदश) कर्मादाननिषिद्धबहुपापव्यापारं दृष्ट्वा चिन्तयति'अहं पृथग् भूत्वा सर्वव्यवसायान् कृत्वा धनमर्जयामि' इति । जातः पृथग्। पोतेन रत्नद्वीपे गतः । धनमर्जयित्वा पोतभङ्गात् सर्वधनं निर्गमयामास । एवं बहुशोऽतृष्णोऽतीवकामभोगतया बहून् महारम्भान् व्यवसायान् कृत्वा धनमुपार्जयित्वा निर्गमयामास । सुनन्दस्य पुनः सन्तोषपरस्य स्तोकेन व्यवसायेन प्रत्यहं श्रीर्वर्धते । जातो धनवान् । सुन्दरस्तु दरिद्रः । अन्यदा सुन्दरः सुनन्दऋद्धिं दृष्ट्वा मत्सरी लोभातिरेकाद् 'एनं विनाश्य सर्वां लक्ष्मीमहं गृह्णामि' इति विचिन्त्य सुनन्दमारणाय रात्रौ गच्छन् सर्पेण दष्टो मृतः। नरके गतः। सुनन्दः श्राद्धधर्ममाराध्य सौधर्मे देवो जातः । इति सुनन्दसुन्दरकथा॥४४२॥ आश्रवभावनावचूरिः ॥