________________
१२८
भवभावना - ४४२
[धनाकरकथा]
मृषावादे धनाकरकथा, यथा - विजयवर्धनपुरे सुलसधनाकरनामानौ वणिजौ मिथः प्रातिवेश्मकौ वसतः। धनाकरो मिथ्यादृगपि दानी च गृहाट्टादिषु महामूर्च्छावान्। अन्यदा मुनेः कस्यापि मासक्षपणपारणे भक्त्या प्रासुकाः सक्तवो दत्ताः एकशरावमानाः। अन्यदा सुलसधनाकरयोर्भूविषयो विवादो जातः । केनापि न भज्यते स्म। राज्ञा पृष्टो धनाकरो भूविषयमसत्यं जानन्नपि वक्ति। साहसाद्दिव्यं विधत्ते । असत्यो जातः । लोकैर्धिक्कृतः। राज्ञा देशान्निष्कासितः । मृतो रत्नप्रभायां गतः । तत उद्धृत्य जातः पल्लीशः। अन्यदा केनचिद्राज्ञा पल्लीतो निष्कासितो वने भ्राम्यति। त्रीणि दिनानि क्षुधार्तः दिनत्रयान्ते सक्तुशरावमेकं जलयुतमदृष्टेन केनाप्युपनीतं पुरः पश्यति । सकलकुटुम्बस्य विभज्यार्पयति । परं न त्रुट्यन्ति सक्तवः। विस्मितश्चिन्तयति–'अहो भोजननिर्वाहोऽभूत्।' ज्ञानिनं पृच्छति। स स्माह-“भद्र! त्वया प्राग्भवे यत् सक्तुदानपुण्यं कृतं तत्प्रभावात् तत्पुण्यं प्रणुन्नम्, व्यन्तरेण तवायं सक्तभोजनविधिरक्षयो दत्तः । यच्च भूविषयमसत्यमुक्तं तत्पापात् त्वं भृशं दुःखी जातः स्थानभ्रष्टश्चेति । ततो वैराग्यात् प्रव्रज्य तपः कृत्वा ब्रह्मलोके देवो जातः । विदेहे मोक्षं गमी। इति मृषावादे कथा।।
[वज्रसारकथा]
अथावन्तिवर्धनपुरे वज्रसारश्रेष्ठी दानव्यसनी कालेन क्षीणधनो जातः । रत्नपुरस्थद्रव्याढ्यमातुलपार्श्वगमनाय प्रस्थितः सकुटुम्बः । मार्गे गिरिपुरे रत्नपुरादागतेन पथिकेन प्रोक्तं यत् “तव मातुलो राज्ञा दण्डितः।' इति श्रुत्वा स दुःखी जातः। गिरिपुरे प्रविशन् राजपथपतितां रत्नावलीं दृष्ट्वा गृह्णाति। लोभातिरेकाद् वस्त्राञ्चले बध्नाति। प्रतोल्यां राजपुरुषैः शोध्यमाने सर्वजने सोऽपि शोधितः । दृष्ट्वा रत्नावलीं गृहीतो राजपार्श्वे चौरोऽयमिति वधायादिष्टः । नीतो वध्यभूमौ । इतश्च तत्कुटुम्बं रोदति। तद्दुःखपीडितया तत्रागतया राजपुत्र्या राजानं विज्ञप्य मोचितः । स संविग्नो गुरुपार्श्वे प्रव्रज्य तपः कृत्वा शिवमाप । इति अदत्तादानविषये वज्रसारकथानकमिदम्।
[श्रीपतिवणिक्कथा]
अथ मैथुनविषये कथा। कौशाम्ब्यां नगर्यां शिवश्रेष्ठी धनी साधानां भार्यां मुक्त्वा धनार्जनाय विदेशे गतः। प्रभूता धनकोटीरर्जयित्वा तत्र श्रीपतिरिति प्रसिद्धो लोके जातः। सप्तदशवर्षान्ते स स्वपुरं प्रति चचले । इतश्च तद्भार्या प्रसूता पुत्री जाता रूपवती नाम्ना