________________
भवभावना-४४२
१२७
[हिंसालीकप्रमुखैश्च आश्रवद्वारैः कर्म आश्रवति।
नौरिव जलधिमध्ये जलनिवहं विविधच्छिद्रैः॥४४१॥] [मू] ललियंग-धणायर-वज्जसार-वणिउत्त-सुंदरप्पमुहा। दिटुंता इत्थं पि हु, कमेण विबुहेहिं नायव्वा॥४४२॥
[ललिताङ्ग-धनाकर-वज्रसार-वणिक्पुत्र-सुन्दरप्रमुखाः।
दृष्टान्ता अत्रापि खलु क्रमेण विबुधैः ज्ञातव्याः॥४४२॥] [अव] द्वे अपि पाठसिद्धे। तत्र प्राणातिपातेनैकान्तेनाशुभकर्माश्रवति। यथा पूर्वभवे गङ्गदत्तः। तन्निवृत्तिस्तु न तदाश्रवति। तथा तद्भवे एतद्भ्राता ललिताङ्ग एष व्यतिरेके दृष्टान्तः। अयमेव सूत्रे साक्षादपात्तोऽन्वयदृष्टान्तस्तु गङ्गदत्तः स्वयमेव द्रष्टव्यः। मृषावादे धनाकरः। अदत्तादाने वज्रसारः। मैथुने वणिक्पुत्रः। परिग्रहे सुन्दराख्यानम्। कथानकानि यथा
[ललिताङ्ग-गङ्गदत्तकथा धान्यसञ्चयपुरे द्वौ भ्रातरौ वनात् काष्ठभृतं शकटं लात्वा चलितौ। लघुः शकटं खेटयति। वृद्धोऽग्रेसर: मार्गे चक्खुलण्डीं दृष्ट्वा वृद्धः प्राह–“शकटं टालनीयम्। यथेयं वराकी न म्रियते।' तत् श्रुत्वा सा हृष्टा। लघुश्चिन्तयति–'किमनया रक्षितया?' इति मध्ये एव खेटयति। विनष्टा सा वसन्तपुरे धनश्रेष्ठिनः सुता जाता। यौवने परिणायिता। अन्यदा ज्येष्ठबन्धुर्मृत्वा तस्याः सुतो जातः ललिताङ्ग इति नामा। कालान्तरे द्वितीयोऽपि तस्याः कुक्षाववातरत्। प्रद्वेषात् सा शातनपातनौषधानि पिबति। क्रमाज्जातः पुत्रः। सा दासी हस्ते उज्झति बहिः। तं दृष्ट्वा पिता रहः स्थापयत्यन्यत्र। गङ्गदत्तः इति नाम कृतम्। अन्यदोत्सवे पितृपुत्रौ भोजनायोपविष्टौ। गङ्गदत्तः पृष्ठौ स्थापितः। तस्यापि पक्वान्नादि प्रच्छन्नं दत्तम्। कथमपि तं दृष्ट्वा बलात् सा हस्तेन सञ्चारके क्षिपति पितृपुत्रावुत्थायाशुचेस्तं निष्कास्य प्रक्षाल्य वनान्तर्गतौ। ज्ञानिने पृच्छतः–“किमेतत्?।” ज्ञानी स्माह-प्राग्भवे द्वेषकारणं चाख्यत्। तद् यथास्थितं श्रुत्वा त्रयोऽपि दीक्षां गृह्णन्ति। जनकः सिद्धः। गङ्गदत्तः सर्वस्य वल्लभो भूयामिति निदानेन, ललिताङ्गस्तु तद्भावात् महाशुक्रे देवौ जातो, ततश्च्युत्वा वसुदेवसुतौ बलभद्रकृष्णौ जातौ। इति कृताकृतप्राणातिपातललिताङ्ग-गङ्गदत्तयोः कथानकम्।
१. यथाग्नेर्लवोऽपि खलु दहति ग्रामनगराणि। एकैकमिन्द्रियमपि खलु प्रसरतः समग्रगुणान्।।