________________
१२६
भवभावना ४४१
[मधुप्रियकथा]
अथ रसनेन्द्रियविषये कथा, यथा-सिद्धार्थपुरे विमलश्रेष्ठी । तस्य रसनेन्द्रियवशगो मधुप्रियनामा पुत्रः तिक्तकटुकषायादिरसेषु गृद्धः प्रत्यहं प्रत्यहमपूर्वामपूर्वां रसवतीं कारयति। आसक्त्या तद्वैयग्र्येण व्यवसायादि न करोति । अन्यदा स चिन्तयति 'भुक्ता मया सर्वे रसाः, परमस्मत्कुलाभोज्यमांसमद्यरसौ नाद्यापि भुक्तौ, ततो यद्भवति तद्भवतु परं मद्यमांसादि भोक्तव्यमिति । ततो मद्यमांसाद्यत्ति । मद्यं पिबति । वार्यमाणोऽपि न तिष्ठति। ततः पित्रा कालाक्षरितो देशान्तरे भ्रमति । मधुप्रिय इति लोकप्रसिद्धो जातः। अन्यदा रसनेन्द्रियपरवशतया महासक्तो जातः । प्रच्छन्नं लोकानां शत्रून्मारयित्वा भक्षयति। दृष्टस्तलारक्षेण बद्ध्वा विडम्ब्य शूलीमारोपितः । मृतो नरकादिष्वनन्तसंसारं भ्रान्तः। इति मधुप्रियकथा रसनेन्द्रियविषये।
[महेन्द्रराजकथा]
अथ स्पर्शेन्द्रियविषये कथा, यथा- अथ विश्वपुरे धरणेन्द्रो राजा राज्यं करोति। तस्य पुत्रः महेन्द्रः । । मदनश्रेष्ठी पुत्रो मित्रम्। मदनस्य चन्द्रवदना भार्या। सान्यदा पतिमित्राय महेन्द्राय गृहे गता स्वयं हस्तेन ताम्बूलमर्पयति । तस्या हस्तस्पर्शं सुकुमारं ज्ञात्वा सोऽध्योपपन्नः। स्पर्शेन्द्रियपरवशतया ततस्तया सह हास्यं करोति । एवं प्रसङ्गतोऽनाचारमपि सेवते स्म । अन्यदा राजा महेन्द्रस्य राज्यं दातुमिच्छति । इतश्च महेन्द्रेण चन्द्रवदनासुकुमारस्पर्शलुब्धेन मदनं हन्तुं नियुक्ताः सेवकाः। ते मदनं प्रहारैर्जर्जरयन्ति। तलारक्षैर्दृष्टा राज्ञः पार्श्वे नीताः । राज्ञा पृष्टा नियुक्ताः- “केन यूयं प्रहिताः।” ते ऊचुः–“महेन्द्रकुमारेण । ” ततो राज्ञा सम्यग्वृतान्तं ज्ञात्वा स देशान्निष्कासितः। चन्द्रवदनां लात्वा स गतो विदेशम् । मदनो वैद्यैः सज्जः कृतः। राजान्यपुत्राय राज्यं दत्त्वा प्रव्रज्य मोक्षं गतः । मदनोऽपि तथाविधिं स्त्रीचरित्रं दृष्ट्वा संविग्नः प्रव्रज्य वैमानिकदेवो जातः। चन्द्रवदनामहेन्द्रौ विदेशे भ्रमन्तौ चौरैर्निगृहीतौ। बब्बरकूले विक्रीतौ। तत्र रुधिराकर्षणवेदनां सहतः भवानन्तं भ्रान्तौ। इति स्पर्शेन्द्रियविपाके महेन्द्रराजकथा।
अथ हिंसादीनामाश्रवद्वारत्वं सदृष्टान्तमाह
[मू] हिंसालियपमुहेहिं, य आसवदारेहिं कम्ममासव । नाव व्व जलहिमज्झे, जलनिवहं विविहछिड्डेहिं ॥ ४४१ ॥