________________
भवभावना-४४०
१२५
मृतः। राज्ञः पश्चात्तापो जातः। यत्स्वल्पेऽप्यपराधे मया गुरुदण्डः कृत इति। इतश्च केवली तत्रायातः। राजा तं वन्दित्वा तस्य कथां पृच्छति। रामभवादारभ्य यथास्थितमाख्यातम्। अग्रतो भूयान् संसार इति श्रुत्वा श्रवणेन्द्रियविपाकं दारुणं दृष्ट्वा महाबलः प्रव्रजितः शिवमाप। इति श्रवणेन्द्रियविपाके राजसुतकथा।
[श्रेष्ठसुतकथा]
विजयपुरे विश्वम्भरी भूप:, कुशलो मन्त्री, यशोधरः श्रेष्ठी, त्रयाणामन्योऽन्यं प्रीतिः। अन्यदा त्रयाणामपि त्रयः पुत्रा जाताः । यौवनमापुः । अन्यदा मन्त्री श्रेष्ठीनमाह–“यथा तव पुत्रो न भव्यः, यतो राजकुले व्रजन् राज्ञोऽन्तःपुरीं सुचिरः तृषितः प्रेक्षते, गच्छति काले अयं विनाशमपि करिष्यति, ततो वार्यताम् ।” स श्रेष्ठीना वारितोऽपि न तिष्ठति। अन्यदा नृपेण सुचिरं सरागदृष्ट्या रमणीः प्रेक्षमाणो दृष्टः। हक्कितो बाढं निषिद्धो राजकुले तस्य प्रवेशोऽपि । ततश्च स चपलाक्ष इति प्रसिद्धो जातः। अन्यदा वणिक्पुत्रैः सह विदेशे प्रहितः। तत्रापि चक्षुरिन्द्रियपरवशः प्रासादारामवापीकूपादीन् प्रत्यहं विलोकते। अन्यदा प्रासादे क्वापि पाषाणपुत्रिकां दिव्यरूपां दृष्ट्वा तमेव पश्यन्नास्ते भोजनाद्यपि मुक्तम्। ततो वणिक्पुत्रैस्तादृश्येव वस्त्रमयी पुत्तलिका गोपयित्वा तत्स्थाने स्थापिता। स तां निरीक्षते । वणिक्पुत्रैः सा उत्तारके नीता स तामेव विलोकमानः पृष्ठिलग्नः समागात्। वणिक्पुत्रा व्यवसायं कृत्वा तां वस्त्रपुत्रिकां गृहीत्वा स्वपुरं प्रति चलिताः श्रेष्ठिपुत्रयुताः। मार्गे धाट्या लुण्टितः सार्थः । वस्त्रपुत्रिका गृहीताः। तामपश्यन् श्रेष्ठिसुतो ग्रहिलो जातः। अटव्यां भ्रमति । अन्यदा विजयपुरं प्राप्तः। अन्यदा राजाङ्गना वने क्रीडन्ती दृष्टा। तदेकदृष्टिरास्ते राजपुरुषैर्मारितो मृतः । एवमनेकभवं भ्रान्तः। इति चक्षुरिन्द्रियविपाके श्रेष्ठिसुतकथा।
[गन्धप्रियकथा]
पद्मखण्डपुरे राजा प्रजापतिः, ज्येष्ठपुत्रस्तस्य गन्धप्रियनामा यद्यत् सुगन्धिवस्तु तत् घ्राणेन्द्रियवशगो जिघ्रति। अन्यदा नद्यां क्रीडति। इतश्चापरमाता तन्मारणाय चूर्णयोगं महारौद्रं सुगन्धं पुटिकां बद्ध्वा क्षिप्त्वा पयसि प्रवाहयति। कुमारस्तां दृष्ट्वा गृह्णाति। वार्यमाणोऽपि गन्धमाघ्राय मृतः । भृङ्गो जातः । ततोऽनन्तं भवं भ्रान्तः । इति घ्राणेन्द्रियविपाके गन्धप्रियकथा ।