________________
१२४
भवभावना-४४०
सर्वेषामिन्द्रियाणां यथाक्रममुदाहरणान्याह[मू] सोयपमुहाण ताण य दिटुंता पंचिमे जहासंखं। रायसुयसेट्ठितणओ गंधमहुप्पियमहिंदा य॥४४०॥
[श्रोत्रप्रमुखाणां तेषां च दृष्टान्ताः पञ्च इमे यथासङ्ख्यम्।
राजसुतः श्रेष्ठितनयो गन्धमधुप्रियमहेन्द्राश्च॥४४०॥] [अवइह श्रोत्रविनाशहेतुत्वे राजसुतो दृष्टान्तः। चक्षुरिन्द्रिये श्रेष्ठिसुतकथा। घ्राणेन्द्रिये मधुप्रियोदाहरणम्। रसनेन्द्रिये मधुप्रियकथा। स्पर्शनेन्द्रियविपाके महेन्द्रकथा। राजसुतकथा यथा
[राजसुतकथा] ब्रह्मस्थलपुरे भुवनचन्द्रो राजा, रामः सुतः ७२(द्विसप्ततिः)कलाकुशलः। अन्यदा राज्ञा मन्त्री पृष्टः–“रामाय यौवराज्यपदं ददामि इति।” मन्त्र्याह “नायं योग्यः।” को दोषः?” इति राज्ञोक्ते मन्त्र्याह–“अयमवशश्रोतेन्द्रियः प्रत्यहं गीतप्रियः।” राजा हसित्वाह–“मन्त्रिन्! राज्ञां गीतप्रियत्वं गुणः। अहो! तव चतुरता।” मन्त्र्याह-“देव! अत्यासक्तत्वं दोषः।”
जह अग्गीए लवो विहु, पसरंतो दहइ गाम नगराई। इक्किक्कमिंदिअंपिहु, तह पसरंतं समग्गगुणे॥१४॥ (हेम.मल.वृत्ति)
तत एतस्य लघुभ्रातुः सम्प्रतिजातस्य राजलक्षणलक्षितस्य यौवराज्यं दीयताम्" इति मन्त्रिणि कथयत्यपि राज्ञा रामस्यैव दत्तम्। क्रमेण राज्ञि मृते राम एव राजा जातः। कनीयान् भ्राता युवराजा। रामोऽहर्निशं गीतानि शृणोति। स्वयमपि गायति, करोत्यभिनवानि गीतानि, शिक्षयन्ति म्बादीन्, नित्यं गीतासक्त एवास्ते, न राज्यचिन्तां करोति। अन्यदा तरुणीडुम्बीभिर्गीतप्रसक्तस्तद्रूपमोहितोऽवगणय्य निजकुलादिमर्यादां ताः सेवतेऽनाचारी सततं तदासक्त एवास्ते। ततो मन्त्रिभिर्विचार्य तस्य लघुभ्राता महाबलो राज्ये स्थापितः। रामो निर्धाटितो देशाद्विदेशे भ्रान्त्वा मृत्वा हरिणो जातः गीतश्रवणासक्तो व्याधेन हतो जातो महाबलपुरोहितस्य पुत्रस्तथापि गीतप्रियः अवशश्रवणेन्द्रियः। अन्यदा महाबलनृपेण रात्रौ डुम्बकुटुम्बे गायति पार्श्वे स्थितः पुरोहितपुत्रो भणितः “यन्मम निद्रासमये एते गायन्तः स्थाप्याः। तेन सरसगीतासक्तेन न वारितः। पश्चाद्रात्रौ प्रबुद्धो राजा रुष्टस्तैलमुक्ताल्य(मुत्क्वाथ्य) तस्य कर्णयोः क्षिपति। स