________________
भवभावना-४३९
१२३
निरङ्कुशा तरुणैः सह रमते। मायाबहुला महासतीवद् भर्तारमनुवर्तते। तथा यथाच्छेकलोकोऽपि महासतीति तां प्रशंसति। अन्यदा पुत्रो जातः। सा स्तन्यपानं न कारयति। वक्ति च “अहं सती परपुरुषसङ्गं कथं कुर्वे?” इति श्रुत्वा हृष्टः श्रेष्ठी। धात्रीमेकां कुरुते। अन्यदा चन्दनोऽट्टे व्यवहरति। एकस्तरुणो ब्राह्मणस्तस्याट्टे सम्प्राप्तः यावदुपविशति तावदट्टनिसृतं तृणं मस्तके लग्नम्। श्रेष्ठी भक्त्यापनयति। द्विजः प्राह–“श्रेष्ठिन् ! जन्ममध्येऽपि मया परधनं तृणमात्रमपि न गृहीतमदत्तम् अद्य पुनरट्टान्मम मस्तके तृणं पतितम्, तस्कररूपमिदम्, शिरः छेत्स्यामि।” क्षुरिकां कर्षयति। श्रेष्ठी वारयति। तुष्टेन श्रेष्ठिना ब्रह्मचारी निरीहः शुद्ध इति स्वावासे नीतः। स्वसहायत्वेन स्थापितः। अन्यदा तं गृहे रक्षकं मुक्त्वा धनार्जनाय देशान्तरं गतः। पद्मिनी तत्र विप्रे लग्नाः। चन्दनः कुसुमपुरं गतः। बहिरुद्याने एकं पक्षिणं काष्ठीभूतं निश्चेष्टं पश्यति। तस्मिन् तथास्थिते शेषाः पक्षिण उदरपूरणार्थं दिक्षु व्रजन्ति। ततः स पक्षी नीडस्थाण्डानि भक्षयति। तथैव पुनस्तिष्ठति। एवं प्रत्यहं कुर्वन् दृष्टश्चन्दनेन। अन्यदा चन्दनस्तरुगहने गतस्तत्रैकं तापसवेषचौरं तपस्तप्यमानं भूतानुकम्पया युगमात्रन्यस्तदृष्टिप्रमार्जनपूर्वं व्रजन्तं पश्यति स्म। तमेव अन्यदा वने क्रीडार्थमागतानां महेश्वरकन्यकानां विनाश्याभरणानि गृह्णन्तं ददर्श। चन्दनः स्वावासे गतः। इतश्च तापसो राज्ञा विगोप्यमानो विनाशितः। चन्दनः स्वपुरमागतः। प्रच्छन्नं स्वगृहे भार्यां तेन द्विजेन रममाणां पश्यति। विस्मितचित्त एवं पपाठ
बालेनाऽचुम्बिता नारी, ब्राह्मणो नृपहिंसकः। काष्ठीभूतो वने पक्षी, जीवानां रक्षको व्रती॥ आश्चर्याणीह चत्वारि, मयापि निजलोचनैः। दृष्टान्यहो ततः कस्मिन्, विश्रब्धं क्रियतां मनः?॥
ततः संवेगमापन्नः स्त्रीचरितं विचारयन् साधुपार्श्वे व्रती जातः। क्रमेण सिद्धः। अपरे चत्वारो मृत्वानन्तसंसारिणो जाताः॥ इति मायायां वणिग्दुहितृकथा।।
लोभे लोभनन्दो लोभातिरेकान्मृत्तिकावेष्टितसुवर्णकुशाग्राहककथा षडावश्यके प्रसिद्धा।तदेवं क्रोधादिकषायाणामाश्रवद्वारत्वमुपदर्शयन्नाह यथा मन्त्रौषधाभ्यां विना उग्रविषा महाकृष्णसर्पा विनाशायैव भवन्ति तथेन्द्रियाण्यपि पुंसः प्रमत्तस्य तत्प्रतिविधानसन्तोषादिविरहितस्येहपरलोकयोर्विनाशकानि स्युरिति॥४३९॥