________________
१२२
भवभावना-४३९
सूरभार्या रूपवती कलानिधिः। अन्यदा सूरेण कोऽपि पुरुषः स्वल्पापरोधे लकुटेन हतो मृतः। राज्ञा सूरो दण्डितो देशान्निष्कासितः। रूपवती तत्पत्नी अन्तःपुरे क्षिप्ता। सुरस्तापसव्रतमाराध्य राजवधनिदानं कृत्वा वायुकुमारोजातः। धूलीवर्षेण सर्वं वसन्तपुरं स्थलीकरोति। ततश्च्युत्वा डुम्बो जातः। ततो मृत्वा प्रथमनरके। ततोऽनन्तं भवं भ्रान्त्वा मगधदेशे क्वापि ग्रामे ग्रामकूटो जातः कोपपरः। अन्यदा भूपेन सह कलिं विधत्ते उच्चभाषणेन। रुष्टो राजा तं बद्ध्वा वृक्षशाखायामुल्लम्बयति। इतश्च तत्र प्रदेशे केवली प्राप्तः। राजा धर्मं श्रुत्वा पृच्छति-“भगवन् ! किं जिजीषुणा जेतव्यम्?” ज्ञानी स्माह–“राजन्! अन्तरङ्गादिसैन्यं क्रोधादिकम्, यतो दारुणदुःखविपाकाः क्रोधादयः।” उल्लम्बितग्रामकूटस्वरूपं मूलतो यथास्थितं प्रोक्तं सूरजन्मप्रभृतिकम्। तच्छ्रुत्वा बहवो लोकाः प्रतिबुद्धाः संयमं प्रतिपद्यन्ते॥ इति कोपे सुरविप्रकथा॥
उज्झितकुमारकथा] नन्दिपुरे रत्नसारो राजा तस्यापत्यानि न जीवन्ति। अन्यदा पुत्रो जातः। सूर्पणोत्करडिकायाम् उज्झितः। दैववशान्न मृतः। तस्योज्झितकुमार इति नाम दत्तम्। स यौवनमाप, परमत्यन्ताहङ्कारी शैलस्तम्भ इव बाल्येऽपि मातापित्रोर्नतिं न कुरुते। स जगत्तृणवन्मन्यते। देवगुरून्न नमति। अन्यदा लेखशालायामुच्चासनस्थं कथाचार्यम्-'रे भिक्षाचर!' इत्यधिक्षिपन चपेटयाहत्य भूमौ पातयति। ततो राज्ञा ज्ञात्वा धिक्कृतः स देशान्निर्ययौ। तापसाश्रमे गतः। पर्यस्थिकां बद्ध्वा मुनीनामग्रे आसीनः। तापसैर्विनयं कुरु इत्युक्तं ततो रुष्टस्ततोऽपि निर्गतः। मार्गे सिंहं दृष्ट्वा दोन्न पश्यति। सन्मुखम् एव गतः। सिंहेन भक्षितः। मृत्वा खरो जातः। ततः पुनरपि नन्दिपुरे पुरोहितस्य पुत्रो जातश्शैशवेऽपि १४(चतुर्दश) विद्यापारगः महाहङ्कारो मृत्वा तत्रैव गायनो डुम्बो जातः। पुरोधसस्तं दृष्ट्वा महास्नेहः। इतश्च केवली तत्रायातः पुरोधसा डुम्बपुत्रस्नेहकारणं पृष्टः। उज्झितकुमारप्रभृति सर्वमुक्तं केवलिना। एवमहङ्कारविपाकं श्रुत्वा राजादयो वैराग्यात्प्रव्रजिताः शिवमापुरिति।। इति मदे उज्झितकुमारकथा॥
वणिग्दुहितृकथा] वाराणस्यां कमलश्रेष्ठिनो मायाबहुला पद्मिनी सुता। सा माता पित्रोविनयं कुरुते। तौ भृशं रञ्जितौ तद्वियोगं क्षणमपि नेच्छतः। अन्यदा चन्दननाम्नो वणिजः सा दत्ता। स गृहजामाता जातः। कमलश्रेष्ठिनि मृते पुत्राभावाच्चन्दन एव गृहपतिर्जातः। पद्मिनी