________________
भवभावना-४३९
१२१
अथ क्रोधादीनां चतुर्णामपि क्रमेणोदाहरणान्याह[मू] पावंति जए अजसं, उम्मायं अप्पणो गुणब्भंसं। उवहसणिज्जा य जणे, होंति अहंकारिणो जीवा॥४३५॥
[प्राप्नुवन्ति जगत्ययश उन्मादमात्मनो गुणभ्रंशम्।
उपहसनीयाश्च जने भवन्ति अहङ्कारिणो जीवाः॥४३५॥] [मू] जह जह वंचइ लोयं, माइल्लो कूडबहुपवंचेहि। तह तह संचिणइ मलं, बंधइ भवसायरं घोरं॥४३६॥
[यथा यथा वञ्चयते लोको मायी कूटबहुप्रपञ्चैः।
तथा तथा सञ्चिनोति मलं बध्नाति भवसागरं घोरम्॥४३६॥] [म] लोभेणऽवहरियमणो, हारइ कज्जं समायरइ पावं। अइलोभेण विणस्सइ, मच्छो व्व जहा गलं गिलिउं॥४३७॥
लोभेनापहृतमना हारयति कार्य समाचरति पापम्।
अतिलोभेन विनश्यति मत्स्य इव यथा गलं गी|॥४३७॥] [मू] कोहम्मि सूरविप्पो, मयम्मि आहरणमुज्झियकुमारो। मायाइ वणियदुहिया, लोभम्मि य लोभनंदो त्ति॥४३८॥
[क्रोधे सुरविप्रो मदे आहरणमुज्झितकुमारः।
___मायायां वणिग्दुहिता लोभे च लोभनन्द इति।।४३८॥] [v] होंति पमत्तस्स विणासगाणि पंचिंदियाणि पुरिसस्स। उरगा इव उग्गविसा, गहिया मंतोसहीहिं विणा॥४३९॥
[भवन्ति प्रमत्तस्य विनाशकानि पञ्चेन्द्रियाणि पुरुषस्य।
उरगा इव उग्रविषा गृहीता मन्त्रौषधाभ्यां विना॥४३९॥] [अव] क्रोधे सूरविप्र उदाहरणम् । मदो मानोऽहङ्कार इति यावत् तत्रोदाहरणम् उज्झितनामा कुमारः, मायायां वणिग्दुहिता, लोभेचलोभनन्दो नामा। उदाहरणानि यथा
[सुरविप्रकथा] वसन्तपुरे कनकप्रभो राजा, सुयशा पुरोहितः। सुरनामा तस्य सुतः सर्वविद्यापारगः परमत्यन्तं कोपनः सदाग्निरिव प्रज्वलँस्तिष्ठति, निष्ठुरभाषी कलहकरः राजसभायामपि सर्वैः सह कलहायते। अन्यदा पितर्युपरते राजा सकोपनत्वात्पुरोहितपदे न स्थापितः।