________________
१२०
भवभावना-४३१
[अष्टमी आश्रवभावना]
अथ धर्मध्यानार्थमेवाष्टमी कर्माश्रवभावना प्रारभ्यते । तत्र संविग्नेन मुमुक्षुणा संसारक्लेशछेदे सर्वदैवेदं मनसि भावनीयमित्याह
[मू| केवलदुहनिम्मविए, पडिओ संसारसायरे जीवो। जं अणुहवइ किलेसं, तं आसवहेउयं सव्वं ॥४३१॥ [केवलदुःखनिर्मापिते पतितः संसारसागरे जीवः। यमनुभवति क्लेशं तद् आश्रवहेतुकं सर्वम्॥४३१॥] [अव] केवलदुःखैर्निर्मितं=घटितं तदात्मके इत्यर्थः॥४३१॥ यैर्जीवः कर्माश्रवयति तान् सूत्रत एवाह
[मू] रागद्दोसकसाया, पंच पसिद्धाई इंदियाई च। हिंसालियाइयाणि य, आसवदाराई कम्मस्स॥४३२॥
[रागद्वेषकषायाः पञ्च प्रसिद्धानीन्द्रियाणि च। हिंसालीकादीनि च आश्रवद्वाराणि कर्मणः ॥ ४३२ ॥ ]
[अव] आदिशब्दाच्चौर्यमैथुनपरिग्रहरात्रिभोजनादि । इदमुक्तं भवति - यथा कश्चिदुद्घाटितद्वारेऽपवरके मूलद्वारैर्गवाक्षजालैः पवनप्रेरितं रजः प्रविशति तथा जीवापवरकेऽपि॥४३२॥
[मू] रागद्दोसाण धिरत्थु जाण विरसं फलं मुणंतो वि। पावेसु रमइ लोओ, आउरवेज्जो व्व अहिए ॥ ४३३ ॥ [रागद्वेषयोः धिगस्तु ययोः विरसं फलं जानानोऽपि।
पापेषु रमते लोक आतुरवैद्य इव अहितेषु॥ ४३३॥]
[अव] रागद्वेषयोर्धिगस्तु ययोर्विरसं फलं जानन्नपि वराको लोकस्तदन्धीकृतः पापेषु रमते यथा व्याधितोऽपथ्येषु॥४३३॥
अथ क्रोधमानमायालोभानामाश्रवद्वारतामाविःकुर्वन्नाह
[मू] धम्मं अत्थं कामं, तिन्नि वि कुद्धो जणो परिच्चय ।
आयरइ ताइं जेहि, य दुहिओ इह परभवे होइ ॥ ४३४ ॥ [धर्ममर्थं कामं त्रीण्यपि क्रुद्धो जनः परित्यजति।
आचरति तानि यैश्च दुःखित इह परभवे भवति॥४३४॥]