________________
भवभावना ४३०
[मू] पुत्तो जणओ जणओ वि नियसुओ बंधुणो वि होंति रिऊ। अरिणो वि बंधुभावं पावंति अणंतसो लोए॥४२९॥ [पुत्रो जनको जनकोऽपि निजसुतो बन्धवोऽपि भवन्ति रिपवः। अरयोऽपि बन्धुभावं प्राप्नुवन्ति अनन्तशो लोके॥४२९॥] [मू] पियपुत्तस्स वि जणणी, खायइ मंसाई भवपरावत्ते । जह तस्स सुकोसलमुणिवरस्स लोयम्मि कट्टमहो॥४३०॥ [प्रियपुत्रस्यापि जननी खादति मांसानि भवपरावर्ते।
यथा तस्य सुकोशलमुनिवरस्य लोके कष्टमहो॥४३०॥]
[अव] सुगमा। भावार्थः कथागम्यः सा चेयम्
११९
[सुकोसलमुनिकथा]
अयोध्यायां विजयो राजा, वज्रबाहुपुरन्दरौ पुत्रौ । वज्रबाहुर्नागपुरेशसुतां मनोरमां परिणीयोदयसुन्दरपालकयुतोऽयोध्यायामागच्छन् मुनिमेकमीक्षमाणः श्यालकेनोक्तः “त्वमपीदृशो भव इति, अहं तव सहायः।” वज्रबाहुः संवेगतो दीक्षां जग्राह। अपरे २६ (षड्विंशतिः) राजकुम(मा)रा मनोरमा प्रव्रज्य सिद्धाः । एतच्छ्रुत्वा विजयः पुरन्दरं राज्ये न्यस्य प्रव्रज्य सिद्धः। पुरन्दरोऽपि कीर्तिधरं राज्ये न्यस्य प्रव्रजितः । कीर्तिधरोऽपि सहदेवीयुतो राज्यं करोति । अन्यदा सूर्यं राहुणा ग्रस्यमानमवेक्ष्य वैराग्यमापन्नः। दीक्षामाददानो मन्त्रिभिः सुतोत्पत्तिं यावत्स्थापितः। सहदेव्यां सुकोसलनाम्नि सुते जाते स प्रवव्राज। सुकोसलो राज्यं करोति । अन्यदा कीर्तिधरो मुनिर्मध्याह्ने भिक्षार्थमयोध्यायां प्रविशन् सहदेव्या—'मा मत्सुत एनं दृष्ट्वा व्रती भवतु' इति लोकैर्निष्कासितस्तथा दृष्ट्वा सुकोसलाधात्री रोदति । सुकोसलेन पृष्टा सर्वं यथास्थितमकथयत्। ततो राजा मुनिवधपरान् जनान् निवार्य कीर्तिधरसमीपे गत्वा गर्भस्थसुतं राज्ये न्यस्य प्राव्राजीत्। सहदेवी पुत्रवियोगार्त्या विपद्य मुग्रिल्ल (?) गिरौ व्याघ्री जाता । कीर्तिधरसुकोसलावपि तत्रैव गिरौ चातुर्मासिकतपः कृत्वा पारणकदिने ग्रामं प्रतिस्थितौ व्याघ्या दृष्टौ, आगत्य सुकोसले पतिता। मुनी प्राणान्तिकमुपसर्गं ज्ञात्वा तत्रैव कायोत्सर्गे स्थितौ। सुकोसलो व्याघ्र्या भक्ष्यमाणः शिवमाप । कीर्तिधरोऽपि स्वर्णमठितसुतदन्तजातजातिस्मृतिः गृहीतानशनौ सहस्रारं जग्मतुः } [संसारस्वभावभावनानिरतः घातिकर्माणि क्षपयित्वा केवलीभूय सिद्धः]॥ इति सुकोसलकथा॥४३०॥ इति लोकभावना सप्तमी॥