________________
११८
भवभावना-४२६
कथेयं यथा
[कदम्बविप्रकथा] ___ काकन्यां पुर्यां सोमशर्माविप्रपुत्रः कदम्बोऽतिशौचवादी छायामात्रान्यस्पर्श सचेलस्नानकारी पानीयपिशाच इति प्रसिद्धः वस्त्रान्तरस्थगितवदननासिकः सर्वत्र हुं हुम् इति कुर्वन् भ्रमति। ततो यौवने गलत्कुष्टप्रभृतिरोगैम्रस्तः। नष्टः सर्वशौचवादः। अन्यदा निष्प्रतिकर्मशरीरान् मुनीन् दृष्ट्वा संवेगमापन्नः। 'अहो! एते एव शुचयो ये ब्रह्मचारिणः, ममापि यदि रोगशान्तिः स्यात्तदाहमीदृशो भवामि।' क्रमादपशान्ते रोगे श्राद्धो जातः। कुटुम्बेऽप्यारोपितो धर्मः। सर्वं बाह्यं वस्तु धनकनकादिकं धर्मे नियुज्य प्रव्रजितस्तपः कृत्वा शिवमापेति कदम्बविप्रकथा।।४२५॥ इति षष्ठ्यशुचिभावनावचूरिः॥
[सप्तमी लोकभावना] अथ सप्तमी लोकभावनामाह[मू] चउदसरज्जू उड्ढायओ इमो वित्थरेण पुण लोगो। कत्थइ रज्जं कत्थ वि, य दोन्नि जा सत्त रज्जूओ॥४२६॥
[चतुर्दशरज्जुक ऊर्दध्वायतोऽयं विस्तरेण पुनर्लोकः।
कुत्रचिद्रज्जु कुत्रापि च द्वे यावत्सप्त रज्जवः॥४२६॥] [अव] सप्तमनरकतलादारभ्योवलोकश्चतुर्दशरज्जुदी? विस्तरतः क्वचिदेका रज्जुः क्वचिवयं सप्त यावदिति॥४२६॥ [मू] निरयावाससुरालयअसंखदीवोदहीहिं कलियस्स। तस्स सहावं चिंतेज्ज धम्मज्झाणत्थमुवउत्तो॥४२७॥
[निरयावाससुरालयासङ्ख्यद्वीपोदधिभिः कलितस्य।
तस्य स्वभावं चिन्तयेद् धर्मध्यानार्थमुपयुक्तः॥४२७॥] [मू] अहवा लोगसभावं, भावेज्ज भवंतरम्मि मरिऊण। जणणी वि हवइ धूया, धूया वि हु गेहिणी होइ॥४२८॥
[अथवा लोकस्वभावं भावयेद् भवान्तरे मृत्वा। जनन्यपि भवति दुहिता दुहितापि खलु गेहिनी भवति॥४२८॥]