________________
भवभावना-४२५
११७
[अव] स्पष्टा॥४२२॥
तदेवं विपर्यस्तो लोकस्तैलजलागुरुकर्पूरकुङ्कुममलयजरसताम्बूलवस्त्राभरणादिभिः संस्कृतं यत्शरीरं तत् शुचित्वेन व्यवस्यति। तात्त्विकमशुचित्वमनया वत्थाहार त्ति गाथयोपदर्शितम्। यान्यप्यमेध्यमृत्तिकाद्याधारतडागजलादीनि अशुचिरूपाणि लोको मन्यते तान्यपि संस्कारवशात्शुचित्वं प्रतिपद्यन्ते इत्याह[मू] असुहाणि वि जलकोद्दववत्थप्पमुहाणि सयलवत्थूणि। सक्कारवसेण सुहाइ होंति कत्थइ खणद्धेणं॥४२३॥
[अशुभान्यपि जलकोद्रववस्त्रप्रमुखाणि सकलवस्तूनि।
संस्कारवशेन शुभानि भवन्ति कुत्रचित् क्षणार्धेन॥४२३॥] [म] इय खणपरियत्तंते, पोग्गलनिवहे तमेव इह वत्थं। मन्नामि सुइं पवरं, जं जिणधम्मम्मि उवयरइ॥४२४॥
[इति क्षणपरावर्तमाने पुद्गलनिवहे तदेव इह वस्तु।
मन्ये शुचिं प्रवरं यज्जिनधर्मे उपकरोति॥४२४॥] [अव] इत्युक्तन्यायेन सर्वस्मिन् पुद्गलनिवहे प्रतिक्षणं परावर्तमाने [शुभे कर्पूरहारताम्बूलादौ देहादिसम्बन्धादशुभतां प्रतिपद्यमाने शुभेऽपि मदनकोद्रवादौ शुभतामासादयति। किं शुचिस्वरूपं किं वाशुभं व्यपदिश्यताम्? इति शेषः। तत्किं सर्वथा किञ्चिदपि वस्तु शुचितयात्र न व्यपदेष्टव्यम् इत्याशङ्क्याह तमेव. इत्यादि। तदेवेह वस्तु शुचिरूपं प्रधानं चाहं मन्ये यत् साधुदेहादिकं कुसुमविलेपनादिकं जिनधर्मे क्षान्त्यादिके जिनपूजादानशीलादिके चोपकुरुते, नान्यत्, तस्य सर्वस्यापि पापोपकारितया नरकादिभवहेतुत्वेन तत्त्वतोऽशुचिस्वरूपत्वादिति।॥४२४॥
यतश्चैवं तस्मादुदाहरणगर्भं कृत्योपदेशमाह[] तो मुत्तूण दुगुंछं, उम्मायकरं कयंबविप्प व्व। देहं च बज्झवत्थु, च कुणह उवयारयं धम्मे॥४२५॥
[ततो मुक्त्वा जुगुप्सामुन्मादकारिणीं कदम्बविप्र इव।
देहं च बाह्यवस्तु च कुरु उपकारकं धर्मे।।४२५॥] । [अव] यस्मात्तदेव वस्तु शुचिस्वरूपं प्रधानं वा यज्जिनधर्मे उपकरोति, शेषमशुच्येव। तस्माज्जुगुप्सां मुक्त्वा कदम्बविप्र इव देहादिकं सर्वं धर्मोपकारि कुर्विति।