________________
११६
चत्तारि पत्था आढयं, चत्तारि आढयो दोणो ॥ इत्यादि
धान्यभृतोऽवाङ्मुखीकृतो हस्तोऽसतीत्युच्यते। वसायास्त्वर्द्धाढकं भणन्ति। मस्तकभेञ्जको मस्तुलुङ्गवस्तु], अन्ये त्वाहुर्मेदः पिप्पिसादिर्मस्तुलिङ्गमिति, तस्यापि प्रस्थं यथोक्तं वदन्ति । अशुचिरूपो योऽसौ मलस्तस्य प्रस्थषट्कं भवति पित्तश्लेष्मणोः प्रत्येकं यथानिर्दिष्टरूपः कुलको भवति । शुक्रस्य त्वर्द्धकुलको भवति । प्रस्थादिमानं बालकुमारतरुणादीनां दो असईओ. इत्यादि क्रमेणात्मीयहस्तेनानेतव्यम् । उक्तमानस्य शुक्रशोणितादि हीनाधिक्यं स्यात्तत्र वाताविदूषितत्वेनेत्यवसेयम्॥ ४१९ ॥
एतच्च
[मू] एक्कारस इत्थीए, नव सोयाइं तु होंति पुरिसस्स । इय किं सुइत्तणं अट्ठिमंसमलरुहिरसंघाए ? ॥४२०॥ [एकादश स्त्रिया नव श्रोत्राणि तु भवन्ति पुरुषस्य ।
इति किं शुचित्वमस्थिमांसरुधिरसङ्घाते ?॥४२०॥]
भवभावना-४२०
[अव] द्वौ कर्णौ, द्वे चक्षुषी, द्वे घ्राणे, मुखं, स्तनौ, पायूपस्थे, चेत्येवमेकादश श्रोत्राणि स्त्रीणां भवन्ति। स्तनवर्जाणि शेषाणि नव पुरुषस्येति॥४२०॥ [मू] को कायसुणयभक्खे, किमिकुलवासे य वाहिखित्ते य। देहम्मि मच्चुविहुरे, सुसाणठाणे य पडिबंधो ? ॥ ४२१॥ [कः काकशुनकभक्ष्ये कृमिकुलवासे च व्याधिक्षेत्रे च। देहे मृत्युविधुरे श्मशानस्थाने च प्रतिबन्धः ?॥४२१॥]
[अव] ततो जिनवचनवासितान्तःकरणानां देहे कः प्रतिबन्धः स्यात्? न कश्चिदित्यर्थः। काककुक्कुरादिभक्ष्ये केवलकृमिकुलावासे समस्तव्याधिक्षेत्रे मृत्युविधुरे मरणावस्थायां निःशेषकार्याक्षमे पर्यन्ते स्मशाने स्थानं यस्य तत्तथा॥४२१॥
[मू] वत्थाहारविलेवणतंबोलाईणि पवरदव्वाणि । होंति खणेण वि असुईणि देहसंबंधपत्ताणि ॥ ४२२ ॥
[वस्त्राहारविलेपनताम्बोलादीनि प्रवरद्रव्याणि ।
भवन्ति क्षणेनापि अशुचीनि देहसम्बन्धप्राप्तानि॥४२२॥]
१. द्वौ असत्यौ पसती, द्वौ पसत्यौ सेतिका भवति । चत्वारः सेतिकाः कुलकः, चत्वारः कुलकाः प्रस्थः॥ चत्वारः प्रस्थाः आढकम्, चत्वारि आढकानि द्रोणः ॥