________________
११४
[मू] सट्ठसयं तु सिराणं, नाभिप्पभवाण सिरमुवगयाणं। रसहरणिनामधिज्जाण जाणऽणुग्गहविघाए ॥ ४१० ॥
[षष्टिशतं तु सिराणां नाभिप्रभवाणां शिरउपगतानाम्। रसहरणीनामधेयानां जानीहि यासामनुग्रहविघातयोः॥४१०॥]
भवभावना-४१०
[मू] सुइ चक्खुघाणजीहाणऽणुग्गहो होइ तह विघाओ य । सट्टसयं अन्नाण वि, सिराणऽहोगामिणीण तहा॥४११॥ [श्रुतिचक्षुर्प्राणजिह्वानामनुग्रहो भवति तथा विघातश्च। षष्टिशतमन्यासामपि सिराणामधोगामिनीनां तथा ॥४११॥]
[अव] इह पुरुषशरीरे नाभिप्रभवानि शिराणां = स्नसानां सप्तशतानि भवन्ति। तत्र षष्ट्यधिकं शतं शिराणां नाभेः शिरसि गच्छति। ताश्च रसहरणीति नामधेयाः । यासां चानुग्रहविघातयोर्यथासङ्ख्यं श्रुतिचक्षुरादीनामनुग्रहो विघातश्च भवति । तथाधः पादतलगतानामनुपघाते जङ्घाबलकारिणीनां स्नसानां षष्ट्यधिकं शतं भवति। उपघाते तु ता एव शिरोवेदनान्धत्वादीनि कुर्वन्ति। शेषं स्पष्टमेवेत्यर्थः॥४१०॥४११॥
अथ स्त्रीनपुंसकयोः कियत्य एता भवन्तीत्याशङ्क्याह
[मू] पायतलमुवगयाणं, जंघाबलकारिणीणीणुवग्घाए । उवघाए सिरि वियणं, कुणंति अंधत्तणं च तहा॥४१२॥ [पादतलमुपगतानां जङ्घाबलकारिणीनामनुपघाते।
उपघाते शिरसि वेदनां कुर्वन्ति अन्धत्वं च तथा ॥ ४१२॥]
[मू] अवराण गुदपविट्ठाण होइ सट्टं सयं तह सिराणं। जाण बलेण पवत्तइ, वाऊ मुत्तं पुरीसं च ॥४१३॥ [अपरासां गुदाप्रविष्टानां भवति षष्टिशतं तथा सिराणाम्। यासां बलेन प्रवर्तते वायुर्मूत्रं पुरीषं च॥४१३॥]
[मू] अरिसाउ पंडुरोगा', वेगनिरोहो य ताणमुवघाए । तिरियगमाण सिराणं, सट्ठसयं होइ अवराणं ॥४१४॥ [अर्शांसि पाण्डुरोगा वेगनिरोधश्च तेषामुपघाते।
तिर्यग्गमानां सिराणां षष्टिशतं भवति अपरासाम्॥४१४॥]
१. रोगो इति पा. प्रतौ।