________________
भवभावना - ४०९
[भवति कटाहे सप्ताङ्गुलानि जिह्वा पलानि पुनश्चत्वारि। अक्षिणी द्वे पले शिरश्च भणितं चतुष्कपालम्॥४०७||]
१९३
[अव] देहे मनुष्यशरीरे पृष्ठिकरण्डकस्य पृष्ठिवंशस्याष्टादशग्रन्थिरूपाः सन्धयो भवन्ति, यथा वंशस्य पर्वाणि तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशेभ्यः सन्धिभ्यो द्वादश पांसुलिका निर्गत्योभयपार्श्वावावृत्त्य वक्षःस्थलमध्योद्ध्ववर्त्यस्थिनि लगित्वा पल्लकाकारतया परिणमन्ति। अत आह-इह शरीरे द्वादश पांशुलिकारूपाः करण्डका वंशका भवन्ति। तह त्ति। तथा तस्मिन्नेव पृष्ठिवंशे शेषषट्सन्धिभ्यः षट् पांसुलिका निर्गत्य पार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षः पञ्जरादधस्ताच्छिथिलकुक्षेस्तूपरिष्टात् परस्परासम्मिलितास्तिष्ठन्ति, अयञ्च कटाह इत्युच्यते। जिह्वामुखाभ्यन्तरवर्तिमांस- दैर्येणात्माङ्गुलतः सप्ताङ्गुलानि भवन्ति । तौल्ये तु मगधदेशे प्रसिद्धपलेन चत्वारि पलानि भवन्ति। अक्षिमांसगोलकौ तु द्वे पले शिरस्त्वस्थिखण्डैश्चतुर्भिः कलापैर्निष्पद्यते॥४०७॥
-खण्डरूपा
तथा
[मू] अद्धुट्ठपलं हिययं, बत्तीसं दसणअट्ठिखंडाइं।
कालेज्जयं तु समए, पणवीस पलाइं निद्दिद्वं॥४०८॥ [अर्धचतुर्थपलं हृदयं द्वात्रिंशद् दशनास्थिखण्डानि।
कालेयकं तु समये पञ्चविंशतिपलानि निर्दिष्टम् ॥ ४०८॥]
[अव] हृदयान्तरवर्तिमांसमर्द्धपलत्रयं भवति। द्वात्रिंशच्च मुखे दन्तास्थिखण्डानि प्रायः प्राप्यन्ते। कालिज्जयं तु वक्षान्तर्गूढमांसविशेषरूपं च पञ्चविंशतिपलान्यागमे उक्तमिति॥४०८॥
[मू] अंताइ दोन्नि इहइं, पत्तेयं पंच पंच वामाओ।
ससयं संधीणं, मम्माण सयं त सत्तहियं ॥ ४०९ ॥
[अन्त्रे द्वे इह प्रत्येकं पञ्च पञ्च व्यामे ।
षष्टिशतं सन्धीनां मर्मणां शतं तु सप्ताधिकम्॥४०९॥]
[अव] द्वौ चाप्यन्त्राणि प्रत्येकं पञ्च पञ्च वामप्रमाणानि, सन्धयोऽङ्गुल्याद्यस्थिखण्डमेलापकस्थानानि मर्माणि शङ्खाणिकाचियरकादीनि। शेषं स्पष्टम्॥ ४०९॥