________________
११२
भवभावना-४०४
[षष्ठी अशुचिभावना] अथ संसारस्य दुःखस्वरूपत्वेऽपि शरीराश्रितं सुखं प्राणिनो भविष्यति, तस्य शुचिस्वरूपत्वाद् इत्याशक्य तदशुचित्वप्रतिपादनपरां षष्ठीमशुचित्वभावनां बिभणिषुराह[मू] बीयट्ठाणमुवटुंभहेयवो चिंतिउं सरूवं च। को होज्ज सरीरम्मि वि, सुइवाओ मुणियतत्ताणं ?॥४०४॥
[द्वितीयस्थानमुपष्टम्भहेतून् चिन्तयित्वा स्वरूपं च।
को भवेत् शरीरेऽपि शुचिवादो ज्ञाततत्त्वानाम् ?॥४०४॥] [अव| शरीरबीजं = शुक्रस्थानं स्वजनन्युदरम्, अवष्टम्भहेतवोऽपि तस्य मातृशुक्रशोणितादयः। एतानि सर्वाणि विचिन्त्य, तथा स्वयं शरीरस्य मांसशोणितास्थिचर्मादिसमुदायरूपं विचिन्त्य विदितवेद्यानां शरीरेऽपि निर्विवादप्रत्यक्षाशुचिवस्तुस्तोममये कः शुचिवादः? न कश्चिदित्यर्थः॥४०४॥
अथशरीरबीजादीन् तत्र एवव्याचिक्षीसुराह[मू] बीयं सुक्कं तह सोणियं च ठाणं तु जणणिगब्भम्मि। ओयं तु उवटुंभस्स कारणं तस्सरूवं तु॥४०५॥
[बीजं शुक्रं तथा शोणितं च स्थानं तु जननीगर्थे।
ओजस्तु उपष्टम्भस्य कारणं तत्स्वरूपं तु॥४०५॥] [अव] बीजं = कारणं तच्च शरीरस्य पितः शक्रं मातः शोणितञ्च। स्थानं तस्यादौ जननीगर्भ। शुक्रशोणितसमुदाय ओज उच्यते।शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः॥४०५॥
स्वरूपंतु तस्य शरीरस्याह[मू] अट्ठारस पिट्टिकरंडयस्स संधीओ होंति देहम्मि। बारस पंसुलियकरंडया इहं तह छ पंसुलिए॥४०६॥
[अष्टादश पृष्ठिकरण्डकस्य सन्धयो भवन्ति देहे।
द्वादश पांशुलिकाकरण्डकाका इह तथा षट् पांशुलिकाः॥४०६॥] [मू] होइ कडाहे सत्तंगुलाई जीहा पलाइं पुण चउरो।
अच्छीओ दो पलाइ, सिरं च भणियं चउकवालं॥४०७॥