________________
भवभावना - ४०३
[अत्र च चतुर्गतिजलधौ परिभ्राम्यद्भिः सकलजीवैः। जातं मृतं च सोढोऽनन्तशो दुःखसङ्घातः॥३९९॥]
[अव] इति चतुर्गतिकजलधौ संसारे इत्यर्थः । परिभ्राम्यद्भिः सकलजीवैरेकैकस्यामपि गतौ जातं मृतं चानन्तशोऽनन्तवारा इत्यर्थः। शारीरमानसिकदुःखसङ्घातश्चानन्तशः सोढ इति॥३९९॥
[मू] सो नत्थि एसो तिहुयणम्मि तिलतुसतिभागमेत्तोऽवि । जाओ न जत्थ जीवो, चुलसीईजोणिलक्खेसु ॥४००॥
[स नास्ति प्रदेशः त्रिभुवने तिलतुषत्रिभागमात्रोऽपि। जातो न यत्र जीवः चतुरशीतियोनिलक्षेषु॥४००॥]
[मू] सव्वाणि सव्वलोए, अणंतखुत्तो वि रूविदव्वाइं । देहोवक्खरपरिभोयभोयणत्तेण भुत्ता ॥ ४०९ ॥
[सर्वाणि सर्वलोके अनन्तकृत्वोऽपि रूपिद्रव्याणि। देहोपस्करपरिभोगभोजनत्वेन भुक्तानि॥४०१॥]
[अव] इहानादौ संसारे चतुसृष्वपि गतिषु अनन्तशः पर्यटता जीवेन [सर्वस्मिन्नपि लोके यानि] कानिचित्सर्वाण्यपि द्रव्याणि समस्तपुद्गला [स्तिकाया ]-त्मकानि तान्यनन्तकृत्वोऽनन्तवारा एकैकजीवेन भुक्तानि । कथमित्याह - देहत्वेन = शरीरतया परिणमय्य भुक्तानि तथोपस्कराः = शय्यासनभाजनादयस्तद्भावेन, तथा परिभुज्यते इति परिभोगो वस्त्रसुवर्णवनितावाहनादिस्तद्रूपेण, तथा भोजनमशनस्वादि-मादि तदात्मना चानन्तशः परिभुक्तानीत्यर्थः॥४०१॥
[मू] मयरहरो व्व जलेहिं, तह वि हु दुप्पूरओ इमो अप्पा । विसयामिसम्म गिद्धो, भवे भवे वच्चइ न तत्तिं ॥ ४०२ ॥
[मकरधर इव जलैस्तथापि खलु दुष्पूरकोऽयमात्मा। विषयामिषे गृद्धो भवे भवे व्रजति न तृप्तिम्॥ ४०२॥]
१११
[मू] इय भुत्तं विसयसुहं, दुहं च तप्पच्चयं अनंतगुणं । इण्हिं भवदुहदलणम्मि जीव ! उज्जमसु जिणधम्मे ॥४०३॥
[इति भुक्तं विषयसुखं दुःखं च तत्प्रत्ययमनन्तगुणम्। इदानीं भवदुःखदलने जीव ! उद्यच्छ जिनधर्मे ॥ ४०३ ॥] ॥इति पञ्चमी भावनावचूरिः ॥