________________
११०
भवभावना-३९७
[अव] वीतरागा एव भगवन्तः सुखिनो भवन्ति। देवाश्चाविरतत्वात्सरागाः मोहोऽत्र मदीया समृद्धिर्मदीयं कलत्रमित्यादि ममत्वरूपः तेन विमूढा विपर्यासं नीताः। कर्माणि ज्ञानावरणादीन्यष्टौ तद्वशगाः। अज्ञानं वस्तुनिश्चयाभावरूपं तेनोपहताः। तेषां चैवम्भूतानां देवानां दुःखेका शङ्का? न काचिदपीत्यर्थः॥३९६॥
मिथ्यादृष्टिदेवाः पुरतो दारिद्र्यभरं रासभीगर्भोत्पत्त्यादिकं दृष्ट्वा भवन्तु दुःखिताः, सम्यग्दृष्टीनां तु चक्रवर्त्यादिकुलेषु उत्पत्तिस्तेषां कुत एतद्दोषसम्भवः? इत्याह[मू] सम्मट्ठिीण वि गब्भवासपमुहं दुहं धुवं चेव। हिंडंति भवमणंतं, च केइ गोसालयसरिच्छा॥३९७॥
[सम्यग्दृष्टीनामपि गर्भावासप्रमुखं दुःखं ध्रुवं चैव।
हिण्डन्ते भवमनन्तं च केचिद् गोशालकसदृशाः॥३९७||] [अव] यद्यपि सम्यग्दृष्टयः प्रायेण हीनस्थानेषु नोत्पद्यन्ते तथापि गर्भवासदुःखं तेषामवस्थितमेव। किं च सम्यग्दृष्टयोऽपि गोशालकसदृशाः सम्यक्त्वं वान्त्वा ततश्च्युत्वा केचिदर्द्धपुद्गलपरावर्तलक्षणम् अनन्तसंसारं पर्यटन्ति। तत्रानन्तं दुःखमनुभवन्ति। यस्य सुखस्यान्ते दुःखमनुभूयते तत्कथं सुखमुच्यते? यतः 'कह तंभ. इति। गोशालककथा प्रसिद्धा॥३९७॥
तस्माद्देवगतावपिन किञ्चित्सारतां पश्यामः। किं सर्वेषाम्? नेत्याह[म] तम्हा देवगईए, विजं तित्थयराणं समवसरणाई। कीरइ वेयावच्चं, सारं मन्नामि तं चेव॥३९८॥ __ [तस्माद् देवगतावपि यत् तीर्थकराणां समवसरणादि।
क्रियते वैयावृत्यं सारं मन्ये तच्चैव।।३९८॥] [अव| स्पष्टा॥३९८॥इति देवगतेरवचूरिः। [] एत्थ य चउगइजलहिम्मि परिब्भमंतेहिं सयलजीवेहि।
जायं मयं च सहिओ, अणंतसो दुक्खसंघाओ ॥३९९॥
१. कह तं भण्णइ सोक्खं सुचिरेण वि जस्स दुक्खमल्लियइ। जं च मरणावसाणे भवसंसाराणुबंधं च ॥
___ (इति हेम.मल.वृत्ति.मु.अ.।) [छाया-कथं तद् भण्यते सौख्यं सुचिरेणापि यस्य दुःखं प्राप्यते। यच्च मरणावसाने भवसंसारानुबन्धं च ॥] २. दुहसमुग्धाओ इति पा. प्रतौ।